श्री शिव स्तुतिः (देवाचार्य कृतम्) PDF संस्कृत
Download PDF of Devacharya Krita Shiva Stuti Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्री शिव स्तुतिः (देवाचार्य कृतम्) संस्कृत Lyrics
|| श्री शिव स्तुतिः (देवाचार्य कृतम्) ||
आङ्गीरस उवाच
जय शङ्कर शान्तशशाङ्करुचे
रुचिरार्थद सर्वद सर्वशुचे ।
शुचिदत्तगृहीत महोपहृते
हृतभक्तजनोद्धततापतते ॥ १ ॥
तत सर्वहृदम्बर वरदनते
नत वृजिन महावनदाहकृते ।
कृतविविधचरित्रतनो सुतनो
ऽतनु विशिखविशोषण धैर्यनिधे ॥ २ ॥
निधनादिविवर्जितकृतनति कृ-
त्कृति विहित मनोरथ पन्नगभृत् ।
नगभर्तृनुतार्पित वामनवपु-
स्स्ववपुःपरिपूरित सर्वजगत् ॥ ३ ॥
त्रिजगन्मयरूप विरूप सुदृ
ग्दृगुदञ्चन कुञ्चनकृत हुतभुक् ।
भव भूतपते प्रमथैकपते
पतितेष्वपि दत्तकर प्रसृते ॥ ४ ॥
प्रसृताखिल भूतल संवरण
प्रणवध्वनिसौध सुधाम्शुधर ।
धरराज कुमारिकया परया
परितः परितुष्टनतोस्मि शिव ॥ ५ ॥
शिव देव गिरीश महेश विभो
विभवप्रद शर्व शिवेश मृड ।
मृडयोडुपतिध्रजगत्त्रितयं
कृतयन्त्रणभक्ति विघातकृताम् ॥ ६ ॥
न कृतां तत एष बिभेमि हर
प्रहराशु ममाघममोघमते ।
नमतान्तरमन्यदवैमि शिवं
शिवपादनतेः प्रणतोऽस्मिततः ॥ ७ ॥
विततेत्र जगत्यखिलाघहर
हरतोषणमेव परङ्गुणवत् ।
गुणहीनमहीनमहावलयं
लयपावकमीशनतोस्मि ततः ॥ ८ ॥
इति स्तुत्वा महादेवं विररामाङ्गिरस्सुतः ।
व्यतरच्च महादेवस्स्तुत्या तुष्टो वरान्बहून् ॥ ९ ॥
श्रीमहादेव उवाच
बृहता तपसानेन बृहतां पतिरस्यहो ।
नाम्ना बृहस्पतिरिति ग्रहेष्वर्च्यो भव द्विज ॥ १० ॥
अस्माल्लिङ्गार्चनान्नित्यं जीवभूतोसि मे यतः ।
अतोजीव इति ख्यातिं त्रिषु लोकेषु यास्यसि ॥ ११ ॥
वाचां प्रपञ्चैश्चतुरैर्निष्प्रपञ्चं यतस्स्तुतः ।
अतो वाचां प्रपञ्चस्य पतिर्वाचस्पतिर्भव ॥ १२ ॥
अस्य स्तोत्रस्य पठनादवातिष्ठति यः पुमान् ।
तस्य स्यात्संस्कृता वाणी त्रिभिर्वर्षै-स्त्रिकालतः ॥ १३ ॥
इति श्री देवाचार्य कृत शिव स्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री शिव स्तुतिः (देवाचार्य कृतम्)

READ
श्री शिव स्तुतिः (देवाचार्य कृतम्)
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
