श्रीदेवानां स्तुत्यष्टकम् PDF संस्कृत
Download PDF of Devanamstutyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीदेवानां स्तुत्यष्टकम् संस्कृत Lyrics
|| श्रीदेवानां स्तुत्यष्टकम् ||
ॐ नमस्ते भगवते नमो नारायणाय ते ।
ॐ नमस्ते भगवते सर्वज्ञाय नमो नमः ॥ १॥
घोर संसारार्णवस्य तारकाय नमो नमः ।
तारक ब्रह्मरूपाय भूतनाथाय ते नमः ॥ २॥
बोधरूपाय पूताय पुण्यपूर्णाय ते नमः ।
मर्त्रङ्गुतेकाय ओङ्काराय नमो नमः ॥ ३॥
भकाराय नमस्तुभ्यं रेफान्ताय नमो नमः ।
यकाराय नमस्तुभ्यं गोकाराय नमो नमः ॥ ४॥
भकाराय तकाराय रेफान्ताय नमो नमः ।
नकाराय नमस्तुभ्यं मकाराय नमो नमः ॥ ५॥
श्रीश शङ्करपुत्राय सर्वदा ते नमो नमः ।
हर भो सङ्कटं देव सकलं सकलेश्वर ॥ ६॥
देवेश विश्वकर्ता त्वं परिपाहि जगत्पते ।
विश्वभर्ता जय सदा विश्वहर्ता जय प्रभो ॥ ७॥
सर्वेषां जीवलोकानामेक जीवस्वरूपक ।
देवदेव जय त्वं भो सर्वदा सर्वनायक ।
धर्मशास्ता जयभवन् जन्मदुःख विनाशन ॥ ८॥
इति श्रीदेवानां स्तुत्यष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीदेवानां स्तुत्यष्टकम्
READ
श्रीदेवानां स्तुत्यष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
