सुराङ्गनाभिः कृता देवीस्तुतिः PDF संस्कृत
Download PDF of Devistutihsuranganabhihkrrita Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
सुराङ्गनाभिः कृता देवीस्तुतिः संस्कृत Lyrics
|| सुराङ्गनाभिः कृता देवीस्तुतिः ||
दयारसघने शिवे विकचपङ्कजास्येऽम्बिके
सुचम्पकसरावलीमधुरगन्धजाजीसरैः ।
सुगुच्छवरमल्लिकाविधृतपाटलोशीरकै-
र्विराजितकपर्दके विलसदिन्दुकोटीरके ॥ १॥
नमत्सुरपदाम्बुजे (नमस्सुरपदाम्बुजे, नमस्सुरवरप्रदे)
भवहरे (भवहरं) नमस्ते नमः ॥
मञ्जीरशिञ्जितरणन्मणिपादयुग्मकञ्जो-
पमानकरणायितलक्तकोह्यम् ।
पादद्वयं सुरगणोत्तममौलिकोटिघृष्टं
सुसन्नखजिताम्बरकान्तिकान्तम् ॥ २॥
(मञ्जीरशिञ्जितरणन्मणिपादयुग्मकञ्जो-
पमानकरणायितलक्तकोद्यपादद्वयम् ।
सुरगणोत्तममौलिकोटि-
घृष्टं सुसन्नखजिताम्बर कान्तिकान्तं)॥ २॥
त्वामम्ब(त्वामम्बं)चाम्बुरुहगर्भरसास्यनेत्रे
लग्ना विलग्नहृदयास्तुतरां नमस्ते ॥ ३॥
जय देवि जगद्वन्द्ये प्रपन्नार्तिहरे शिवे ।
तव पादाम्बुजद्वन्द्वदर्शनं नः क्व वा भवेत् ॥ ४॥
तवपादाम्बुजार्चातोधन्यामान्यास्सुरासुराः ।
शिववामाङ्कभागस्थासदाकैलासवासिनी ॥ ५॥
तवपादप्रभाजालैर्धृता (प्रभाजालैर्झता, प्रभाजालैर्घृष्टा) लोकत्रयावली ।
अद्य धन्यतरः कालोह्यद्य धन्ये विलोचने ॥ ६॥
मुनिदेवाङ्गनास्सर्वा यत्तेदृष्टं पदद्वयम् ।
वेदैरपि ह्यविज्ञातं वेदान्तैरपि ते पदम् ॥ ७॥
तवाद्य दर्शनं जातं सफला नो मनोरथाः ॥
॥ इति शिवरहस्यान्तर्गते भवाख्ये सुराङ्गनाभिः कृता देवीस्तुतिः ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowसुराङ्गनाभिः कृता देवीस्तुतिः
READ
सुराङ्गनाभिः कृता देवीस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
