ढुण्ढिस्वरूपवर्णनस्तोत्रम् PDF संस्कृत
Download PDF of Dhumdhiswarupavarnanastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
ढुण्ढिस्वरूपवर्णनस्तोत्रम् संस्कृत Lyrics
|| ढुण्ढिस्वरूपवर्णनस्तोत्रम् ||
श्रीगणेशाय नमः ।
जैमिनिरुवाच ।
न वक्तुं शक्त्ये राजन् केनापि तत्स्वरूपकम् ।
नोपाधिना युतं ढुण्ढिं वदामि शृणु तत्त्वतः ॥ १॥
अहं पुरा सुशान्त्यर्थं व्यासस्य शरणं गतः ।
मह्यं सङ्कथितं तेन साक्षान्नारायणेन च ॥ २॥
तदेव त्वां वदिष्यामि स्वशिष्यं च निबोध मे ।
यदि तं भजसि ह्यद्य सर्वसिद्धिप्रदायकम् ॥ ३॥
देहदेहिमयं सर्वं गकाराक्षरवाचकम् ।
संयोगायोगरूपं यद् ब्रह्म णकारवाचकम् ॥ ४॥
तयोः स्वामी गणेशश्च पश्य वेदे महामते ।
चित्ते निवासकत्वाद्वे चिन्तामणिः स कथ्यते ॥ ५॥
चित्तरूपा स्वयं बुद्धिर्भ्रान्तिरूपा महीपते ।
सिद्धिस्तत्र तयोर्योगे प्रलभ्येत् तयोः पतिः ॥ ६॥
द्विज उवाच ।
शृणु राजन् गणेशस्य स्वरूपं योगदं परम् ।
भुक्तिमुक्तिप्रदं पूर्णं धारितं चेन्नरेण वै ॥ ७॥
चित्ते चिन्तामणिः साक्षात्पञ्चचित्तप्रचालकः ।
पञ्चवृत्तिनिरोधेन प्राप्यते योगसेवया ॥ ८॥
असम्प्रज्ञातसंस्थश्च गजशब्दो महामते ।
तदेव मस्तकं यस्य देहः सर्वात्मकोऽभवत् ॥ ९॥
भ्रान्तिरूपा महामाया सिद्धिर्वामाङ्गसंश्रिता ।
भ्रान्तिधारकरूपा सा बुद्धिश्च दक्षिणाङ्गके ॥ १०॥
तयोः स्वामि गणेशश्च मायाभ्यां खेलते सदा ।
सम्भजस्व विधानेन तदा संलभसे नृप ॥ ११॥
इति ढुण्ढिस्वरूपवर्णनस्तोत्रं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowढुण्ढिस्वरूपवर्णनस्तोत्रम्
READ
ढुण्ढिस्वरूपवर्णनस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
