धूम्रमहिमावर्णनस्तोत्रम् PDF संस्कृत
Download PDF of Dhumramahimavarnanastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
धूम्रमहिमावर्णनस्तोत्रम् संस्कृत Lyrics
|| धूम्रमहिमावर्णनस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
सनकाद्या ऊचुः ।
कुरुक्षेत्रं महादेव धूम्रवर्णस्य सर्वदम् ।
माहात्म्यं क्षेत्रमुख्यस्य वद सन्तोषदायकम् ॥ १॥
श्रीशिव उवाच ।
ऐशान्ये हिमवत्प्रान्ते धूम्रवर्णस्य क्षेत्रकम् ।
विख्यातं तस्य माहात्म्यं वर्णितुं कः क्षमो भवेत् ॥ २॥
सङ्क्षेपेण वदिष्यामि प्रणम्य गणनायकम् ।
माहात्म्यं क्षेत्रमुख्यस्य शृणुध्वं त्वेकचेतसः ॥ ३॥
देवर्षिभिः प्रहर्षेण स्थापितो धूम्रवर्णकः ।
शुण्डादण्डमुखः श्रीमांश्चतुर्बाहुप्रधारकः ॥ ४॥
त्रिनेत्र एकदन्तश्च परश्वादिसमन्वितः ।
अहङ्कारो गणेशानं भजते तत्र नित्यशः ॥ ५॥
वामे सिद्धिर्दक्षिणाङ्गे बुद्धिः सर्वप्रियङ्करी ।
पुरतो मूषकस्तस्य धूम्रवर्णस्य शोभनः ॥ ६॥
दशयोजनविस्तारः क्षेत्रस्य गणपस्य च ।
चतुरस्त्रं च तत् क्षेत्रं सर्वसिद्धिप्रदायकम् ॥ ७॥
पुरतो धूम्रवर्णस्य भक्ता मुद्गलमुख्यकाः ।
शुकाद्यास्तं भजन्ते ते स्तुवन्ति स्म महर्षयः ॥ ८॥
पृष्ठतः पार्षदास्तस्य प्रमोदामोदकादयः ।
आत्तशस्त्रा महाभागाः सेवन्ते धूम्रवर्णकम् ॥ ९॥
वामाङ्गे तीर्थमुख्यानि प्रयागादीनि मानदाः ।
क्षेत्राणि काशीमुख्यानि भजन्ते धूम्रवर्णकम् ॥ १०॥
दक्षिणाङ्गेऽमरेशानाः शम्भुविष्णुमुखाः सदा ।
सगणाः सपरीवारा भजन्ते गणनायकम् ॥ ११॥
शेषाद्या नागराजाश्च पर्वता हैममुख्यकाः ।
गन्धर्वाश्चारणाः सिद्धा वसवो मनवस्तथा ॥ १२॥
आदित्या रुद्रकाद्याश्च विद्याधराप्सरादयः ।
वसन्ति तत्र क्षेत्रे ते भजन्ते द्विरदाननम् ॥ १३॥
यद्यच्छ्रेष्ठतमं लोके तत्तत्तत्रैव संस्थितम् ।
सेवार्थं धूम्रवर्णस्य भक्तिभावसमन्वितम् ॥ १४॥
तेषां स्थानादिकं विप्राः कथितुं नैव शक्यते ।
अपारत्वात्ततः सङ्क्षेपतः प्रोक्तं मया परम् ॥ १५॥
तत्र तीर्थं महासिद्धिदायकं वर्तते परम् ।
धूम्रवर्णस्य तत्रैव स्नानं करोति विघ्नपः ॥ १६॥
तत्र स्नानेन सद्यश्च वाञ्छितं लभते नरः ।
अन्ते मोक्षं न सन्देहो यत्र कुत्र मृतोऽपि चेत् ॥ १७॥
तत्र विष्णुमुखा देवाः कश्यपाद्या महर्षयः ।
नित्यं स्नानं प्रकुर्वन्ति प्रहृष्टेनान्तरात्मना ॥ १८॥
अन्यक्षेत्रस्थनागाद्यास्तत्र स्नानं प्रकुर्वते ।
जनाः क्षेत्रनिवासार्थं स्थितास्तेऽपि मुदान्विताः ॥ १९॥
शिवविष्णुमुखानां च तत्र तीर्थानि मानदाः ।
स्थितानि स्नानमात्रेण तेषां पदप्रदानि च ॥ २०॥
तत्र दर्शनमात्रेण धूम्रवर्णस्य वै सकृत् ।
ईप्सितं लभते सद्यो मानवो पुण्यवान् भवेत् ॥ २१॥
यात्रामात्रेण तत्रैव धर्मार्थकाममोक्षकम् ।
लभते एकवारेण यत्र कुत्र गतोऽपि चेत् ॥ २२॥
भाद्रशुक्लचतुर्थ्यां स स्थापितो धूम्रवर्णकः ।
देवर्षिभिश्च मध्याह्ने सा तिथिः परमा मता ॥ २३॥
वार्षिकः सुमहोत्साहस्तत्रैव क्रियते जनैः ।
भाद्रशुक्लचतुर्थ्यां तु यात्रां कुर्वन्ति मानवाः ॥ २४॥
परस्परं प्रहृष्टास्ते बोधयन्ति गजाननम् ।
सरोमाञ्चा भवन्त्येव शङ्कराद्या महर्षयः ॥ २५॥
गाणेशा भावसंयुक्ता यात्रार्थं हर्षसंयुताः ।
तत्र गच्छन्ति चान्ये ये वैष्णवाद्याः प्रहर्षिताः ॥ २६॥
कृत्वा यात्रां पुनः सर्वे स्वस्वस्थानगता मुदा ।
स्मरन्ति धूम्रवर्णं तं भक्तिभावसमन्विताः ॥ २७॥
अन्ते स्वानन्दगाः सर्वे भवन्ते नात्र संशयः ।
शैवाद्याः क्रममार्गेण स्वानन्दस्था भवन्ति तु ॥ २८॥
क्षेत्रे मरणतो विप्राः स्वानन्दो लभ्यते जनैः ।
यत्र कुत्र स्थिताश्चैव गाणपा ब्रह्मरूपकाः ॥ २९॥
धूम्रवर्णस्य क्षेत्रस्य माहात्म्यं लेशतो मया ।
कथितुं विस्तरेणैवार्हति को नैव वर्णितुम् ॥ ३०॥
गाणेशानि च क्षेत्राणि ब्रह्मभूतमयानि तु ।
यावन्ति ब्रह्मगोलेऽस्मिंस्तावन्ति मुनिसत्तमाः ॥ ३१॥
धर्मार्थकाममोक्षाणां क्षेत्राणि विविधानि च ।
चतुःपदमयान्येव ज्ञातव्यानि न संशयः ॥ ३२॥
पञ्चमं यत् पदं प्रोक्तं ब्रह्माकारं महर्षिभिः ।
क्षेत्रं गणपतेर्विप्रा यत्र तत्र स्थितं किल ॥ ३३॥
इदं क्षेत्रस्य माहात्म्यं शृणुयाद्यो नरोत्तमः ।
श्रावयेत् प्रपठेद्वाऽपि स सर्वार्थमवाप्नुयात् ॥ ३४॥
इति धूम्रमहिमावर्णनस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowधूम्रमहिमावर्णनस्तोत्रम्
READ
धूम्रमहिमावर्णनस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
