श्रीशिवकृतं धूम्रवर्णस्तोत्रम् PDF संस्कृत
Download PDF of Dhumravarnastotramshrishivakrritam Sanskrit
Shiva ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीशिवकृतं धूम्रवर्णस्तोत्रम् संस्कृत Lyrics
|| श्रीशिवकृतं धूम्रवर्णस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
नमस्ते धूम्रवर्णाय नानाखेलकराय च ।
अमेयशक्तये तुभ्यं मायिने धर्मरक्षिणे ॥ ५॥
अनाथानां प्रणाथाय नाथनाथाय ते नमः ।
सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः ॥ ६॥
सगुणनिर्गुणाभ्यां च हीनाय योगरूपिणे ।
योगाकारेण सर्वत्र संस्थिताय नमो नमः ॥ ७॥
नरकुञ्जररूपाय धूम्रवर्णधराय च ।
द्विभुजायाश्ववाहाय हेरम्बाय नमो नमः ॥ ८॥
खड्गचर्मधरायैव नाना चन्दनचर्चित ।
नाना पुष्पधरायैव सर्वाध्यक्षाय ते नमः ॥ ९॥
पूर्णाय पूर्णरूपाय गणेशाय परात्मने ।
धर्मरक्ष महाभाग गजानन नमोऽस्तु ते ॥ १०॥
धर्मान्ना अमराः सर्वे सुरेश्वर कृतास्त्वया ।
नष्टे धर्मेऽधुना नाथ मरिष्यामस्त्वदग्रतः ॥ ११॥
बुद्धमायासहायेन कलिना निर्जिता वयम् ।
विष्णुशम्भुमुखा देवास्तान् पालय महोदर ॥ १२॥
सार्धेन द्विसहस्रेण प्रभो वर्षैर्विनिर्जिताः ।
क्षुद्रदेवाः स्वग्रामस्थाः कलिना पपलुश्च ते ॥ १३॥
ततः पञ्चसहस्रेण वर्षैस्तास्तीर्थदेवताः ।
तीर्थानि कलिना नाथ जितानि पपलुस्तथा ॥ १४॥
ततो दशसहस्रेण जिता विष्णुशिवादयः ।
कलिना पृथिवीं त्यक्त्वा पपलुर्देवसत्तमाः ॥ १५॥
कर्माकर्मविकर्माख्या शक्तिस्तत्र स्थिता भवेत् ।
विकर्मगुणसंयुक्ता बुद्धमायात्मिका प्रभो ॥ १६॥
त्वमपि त्वादृशो भूत्वा फलदाता स्थितः स्वयम् ।
देवरूपधरः स्वामिन् सदा कलिप्रवर्तकः ॥ १७॥
न ते देवस्वरूपं तु कलिः क्रोधसमन्वितः ।
छेत्तुं समुद्यतः क्वापि त्वां चिन्तयति सर्वदा ॥ १८॥
तव चिन्तनभावेन वयं सर्वे पराजिताः ।
कलिना देवदेवेश उपोषणयुताः कृताः ॥ १९॥
अधुना लेशमात्रेण धर्मस्तिष्ठति विघ्नप ।
तं हनिष्यति वेगेन कलिः परमदारुणः ॥ २०॥
नष्टे धर्मे गणाधीश अधर्मः केवलो महान् ।
भविष्यति पुनर्धर्मं किं स्रक्ष्यसि च देवप ॥ २१॥
अतो लेशमयं धर्मं रक्षस्व गणनायक ।
नोचेद्धर्मशरीरास्तु वयं नष्टा भवामहे ॥ २२॥
रक्ष रक्ष दयासिन्धो धूम्रवर्ण गजानन ।
मृत्युप्रायाननाथांश्च देवान् धर्मप्ररक्षकान् ॥ २३॥
एवमुक्त्वा गणाधीशं प्रणेमुरमराः पुनः ।
रुरुदुर्दुःखसंयुक्तांस्तान् जगाद गजाननः ॥ २४॥
(फलश्रुतिः)
धूम्रवर्ण उवाच ।
मा भयं कुरुत प्राज्ञा धर्मं संरक्षयाम्यहम् ।
सर्वैरजेयमुग्रं तं कलिं हत्वा विशेषतः ॥ २५॥
भवत्कृतमिदं स्तोत्रं कलिदोषहरं भवेत् ।
पठते शृण्वते देवाः सर्वसिद्धिप्रदायकम् ॥ २६॥
धनधान्यप्रदं चैवारोग्यसम्पत्प्रवर्धनम् ।
पुत्रपौत्रकलत्रादिदायकं प्रभविष्यति ॥ २७॥
एवमुक्त्वा स्वदेहात् स धूम्रवर्णः प्रतापवान् ।
निर्ममे विविधां सेनां नानाशस्त्रसमन्विताम् ॥ २८॥
नानावाहनगां पूर्णतेजोयुक्तां महर्षयः ।
तया युक्तो जनान् सर्वान् जघान मलिनान् प्रभुः ॥ २९॥
म्लेच्छप्रायांश्च विविधान् म्लेच्छान् कलिमलैर्युतान् ।
स्वयं सन्त्रासयामास कलिं धर्मवधे रतम् ॥ ३०॥
तस्याङ्गवायुना स्पृष्टा जना धर्मपरायणाः ।
भययुक्ता गणेशं ते शरणं जग्मुरादरात् ॥ ३१॥
कलिर्गुप्तस्वरूपेण युयुधे जनसंश्रितः ।
गणेशैः संहतः सोऽपि बभूव ह हतोद्यमः ॥ ३२॥
ततो भयसमायुक्तं त्यक्त्वा हृज्जन्मिनां कलिः ।
देहधारी समागत्य धूम्रवर्णं ननाम सः ॥ ३३॥
तुष्टाव पूज्य तं नत्वा धूम्रवर्णं महाबलम् ।
ज्ञात्वा विघ्नेश्वरं भक्त्या हृष्टरोमा महायशाः ॥ ३४॥
इति श्रीशिवकृतं धूम्रवर्णस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीशिवकृतं धूम्रवर्णस्तोत्रम्
READ
श्रीशिवकृतं धूम्रवर्णस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
