द्व्यर्थिरामेश्वरस्तोत्रम् PDF संस्कृत
Download PDF of Dvyarthirameshvarastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
द्व्यर्थिरामेश्वरस्तोत्रम् संस्कृत Lyrics
|| द्व्यर्थिरामेश्वरस्तोत्रम् ||
भागीरथीपुण्यजलाभिषिक्तो यो ब्रह्महत्याद्यघतः पुनाति ।
रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ १॥
यद्दर्शनं कायिकवाचिकादिपापापहं तापहरं वरं च ।
रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ २॥
त्रिकालसन्दर्शनतोऽपि तृप्तो ददाति सिद्धीरुभयीर्महात्मा ।
रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ ३॥
रुद्राभिषेकप्रिय ईश्वरो यः सर्वार्थदो भाविककामपूरः ॥
रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ ४॥
यो बिल्वपत्रैस्त्रिदलैर्भवारिः सम्पूजितो यच्छति भुक्तिमुक्ती ।
रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ ५॥
सम्पूजितो योऽप्यजितः प्रदोषे ददाति भुकिन्त सकलाधिशान्तिम् ।
रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ ६॥
यः शुद्धचित्तेन हि संस्मृतोऽजो भवत्यरं भक्तजितो जितारिः ।
रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ ७॥
न ज्ञायते वाङ्मनसातिदूरो देवादिभिर्यन्महिमानियत्तः ।
रामेश्वरोऽसौ भरताग्रजन्मसंस्थापितः पातु सदा विपद्भ्यः ॥ ८॥
रामेश्वराष्टकमिदं सुखदं विखेदं
तापत्रयोपशमदं मदमत्सरादम् ।
भक्तेष्टदं जननमृत्युगदागदं यो
भक्त्या पठेत्स परमं पदमेति शम्भोः ॥ ९॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं
भरताख्यद्विजस्थापितरामेश्वरस्तोत्रं रामेश्वराष्टकं च सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowद्व्यर्थिरामेश्वरस्तोत्रम्
READ
द्व्यर्थिरामेश्वरस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
