द्व्यर्थिषडाननस्तोत्रम् PDF संस्कृत
Download PDF of Dvyarthishadananastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
द्व्यर्थिषडाननस्तोत्रम् संस्कृत Lyrics
|| द्व्यर्थिषडाननस्तोत्रम् ||
दक्षेण हस्तेन गदां दधान क्रौञ्चञ्च वामेन सुसावधानः ।
स शुक्रजो वोऽवतु कार्तिकेयः षाण्मातुरः साम्बसुतोऽर्यजेयः ॥ १॥
षट्शिरो द्वादशकरो द्विगुणोऽत्रिज एव किम् ।
सोऽम्बसुतो द्विहस्तोऽत्र सुब्रह्मण्यो मयेक्षितः ॥ २॥
हत्वा बलात्सम्पदमाश्वदैवीं पुष्णाति गोपायति वैश्वदैवीम् ।
सुपूजितस्त्वं सुमनः स्वभक्तगते नमस्तेऽस्तु सदा विरक्तम् ॥ ३॥
विशेषतस्त्वां भुवि दाक्षिणात्या भजन्ति भक्त्या परयाज तेषाम् ।
अनुग्रहार्थं द्विभुजस्वरूपं प्रकाश्य चास्से दिशि दक्षिणस्याम् ॥ ४॥
स्त्रीसङ्गतिर्दुर्गतिरेव साक्षादित्थं समाख्यापयितुं वधूनाम् ।
सुस्पर्शगन्धोऽपि सुदूरतस्ते समुझ्झितो देव पदे नमस्ते ॥ ५॥
स्वामिन्नम्बास्नेहलतां विततामपि तां क्षणात् ।
मायामयीं निरस्याऽजो विजहार नमामि तम् ॥ ६॥
एकान्तसेविनमपि स्वामिनं त्वोपतस्थिरे ।
एकान्त भक्ता यच्चित्ते नैव कामोद्गतिः स्थिरे ॥ ७॥
स्वामिंस्तारकजित्सर्वलोककारकशक्तिधृक् ॥
अम्बासुत नमस्तेऽस्तु प्रसीद परिपाहि नः ॥ ८॥
योगापेक्षा मे न ते दर्शनार्थं नापेक्षा मे भाविपूज्योद्भवार्थम् ।
भक्त्या भूयाद्दर्शनं ते कदापि स्यात्साफल्यं जन्मनो मे ततोऽपि ॥ ९॥
स्मर्तृगामी कलौ योऽम्बातनयो द्विशयो मतः ।
चक्रे द्व्यर्थां तस्य नुतिं वासुदेवसरस्वती ॥ १०॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं कार्तिकस्वामीस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowद्व्यर्थिषडाननस्तोत्रम्
READ
द्व्यर्थिषडाननस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
