चन्द्रकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutihchandrakrrita2 Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
चन्द्रकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| चन्द्रकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
चन्द्र उवाच ।
नमस्ते विघ्नपालाय गणेशाय परात्मने ।
ब्रह्मेशाय स्वभक्तेभ्यो ब्रह्मभूयप्रदाय ते ॥ ९५॥
अनामयाय सर्वादिपूज्याय तु नमो नमः ।
शिवात्मजाय देवाय विष्णुपुत्राय ते नमः ॥ ९६॥
ब्रह्मपुत्राय सूर्यस्य पुत्र ते विघ्नहारिणे ।
शक्तिपुत्राय शेषस्य पुत्राय च नमो नमः ॥ ९७॥
सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः ।
सर्वेशाय परेशाय परात्परतराय ते ॥ ९८॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रचालक ।
हेरम्बाय महेशानां महेशाय नमो नमः ॥ ९९॥
स्रष्टे पात्रे च संहर्त्रे परमात्मस्वरूपिणे ।
सर्वेभ्यो वरदात्रे तेऽनादिसिद्धाय भो नमः ॥ १००॥
क्षमापराधं देवेश त्वन्मायामोहधारिणः ।
शरणं ते प्रसन्नस्य रक्ष मां महतो भयात् ॥ १०१॥
मां दृष्ट्वा हर्षसम्पन्ना अभवन् देवतादयः ।
अधुना मां निरीक्ष्यैव दोषयुक्ता भयातुराः ॥ १०२॥
अतो मां नैव पश्यन्ति पापिनां पापरूपिणम् ।
निर्दोषं कुरु विघ्नेश करुणालय ते नमः ॥ १०३॥
सर्वदा दर्शनं ते वै ममास्तां विघ्नवारण ।
तेनाऽहं कृतकृत्यश्च भवेयं योगिसम्मतः ॥ १०४॥
ततोऽतिभक्तिसंयुक्तं नृत्यन्तं देवसन्निधौ ।
रोमाञ्चाश्रुसमायुक्तं दृष्ट्वा ढुण्ढिर्जगाद तम् ॥ १०५॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
अपराधाननन्तांश्च सहे तेऽनेन निश्चितम् ॥ १०६॥
सर्वसिद्धिप्रदं पूर्णं भविष्यति विशेषतः ।
पठतां शृण्वतां चैव नानासुखकारकं भवेत् ॥ १०७॥
इति चन्द्रकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowचन्द्रकृता श्रीगणेशस्तुतिः
READ
चन्द्रकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
