श्रीगरुडाष्टोत्तरशतनामस्तोत्रम् PDF संस्कृत
Download PDF of Garudashtottarashatanamastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीगरुडाष्टोत्तरशतनामस्तोत्रम् संस्कृत Lyrics
|| श्रीगरुडाष्टोत्तरशतनामस्तोत्रम् ||
श्रीदेव्युवाच
देवदेव महादेव सर्वज्ञ करुणानिधे ।
श्रोतुमिच्छामि तार्क्ष्यस्य नाम्नामष्टोत्तरं शतम् ।
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि गरुडस्य महात्मनः ।
नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् ॥
अस्य श्रीगरुडनामाष्टोत्तरशतमहामन्त्रस्य ब्रह्मा ऋषिः
अनुष्टुप् छन्दः गरुडो देवता । प्रणवो बीजम् । विद्या शक्तिः ।
वेदादिः कीलकम् । पक्षिराजप्रीत्यर्थे जपे विनियोगः ।
ध्यानम्
अमृतकलशहस्तं कान्तिसम्पूर्णदेहं
सकलविबुधवन्द्यं वेदशास्त्रैरचिन्त्यम् ।
कनकरुचिरपक्षोद्धूयमानाण्डगोलं
सकलविषविनाशं चिन्तयेत्पक्षिराजम् ॥
ॐ । वैनतेयः खगपतिः काश्यपोऽग्निर्महाबलः ।
तप्तकाञ्चनवर्णाभः सुपर्णो हरिवाहनः ॥ १॥
छन्दोमयो महातेजा महोत्साहो महाबलः ।
ब्रह्मण्यो विष्णुभक्तश्च कुन्देन्दुधवलाननः ॥ २॥
चक्रपाणिधरः श्रीमान्नागारिर्नागभूषणः ।
विज्ञानदो विशेषज्ञो विद्यानिधिरनामयः ॥ ३॥
भूतिदो भुवनत्राता भूशयो भक्तवत्सलः ।
सप्तच्छन्दोमयः पक्षी सुरासुरसुपूजितः ॥ ४॥
गजभुक् कच्छपाशी च दैत्यहन्ताऽरुणानुजः ।
अमृतांशोऽमृतवपुरानन्दनिधिरव्ययः ॥ ५॥
निगमात्मा निराहारो निस्त्रैगुण्यो निरप्ययः ।
निर्विकल्पः परं ज्योतिः परात्परतरः परः ॥ ६॥
शुभाङ्गः शुभदः शूरः सूक्ष्मरूपी बृहत्तनुः ।
विषाशी विदितात्मा च विदितो जयवर्धनः ॥ ७॥
दार्ढ्याङ्गो जगदीशश्च जनार्दनमहाध्वजः ।
सतां सन्तापविच्छेत्ता जरामरणवर्जितः ॥ ८॥
कल्याणदः कलातीतः कलाधरसमप्रभः ।
सोमपः सुरसङ्घेशो यज्ञाङ्गो यज्ञभूषणः ॥ ९॥
महाजवो जितामित्रो मन्मथप्रियबान्धवः ।
शङ्खभृच्चक्रधारी च बालो बहुपराक्रमः ॥ १०॥
सुधाकुम्भधरो धीमान्दुराधर्षो दुरारिहा ।
वज्राङ्गो वरदो वन्द्यो वायुवेगो वरप्रदः ॥ ११॥
विनतानन्दनः श्रीदो विजितारातिसङ्गुलः ।
पतद्वरिष्ठः सर्वेशः पापहा पापनाशनः ॥ १२॥
अग्निजिज्जयघोषश्च जगदाह्लादकारकः ।
वज्रनासः सुवक्त्रश्च मारिघ्नो मदभञ्जनः ॥ १३॥
कालज्ञः कमलेष्टश्च कलिदोषनिवारणः ।
विद्युन्निभो विशालाङ्गो विनतादास्यमोचनः ॥ १४॥
स्तोमात्मा च त्रयीमूर्धा भूमा गायत्रलोचनः ।
सामगानरतः स्रग्वी स्वच्छन्दगतिरग्रणीः ॥ १५॥
इतीदं परमं गुह्यं गरुडस्य महात्मनः
नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् ।
स्तूयमानं महादिव्यं विष्णुना समुदीरितम् ॥ १६॥
इति ब्रह्माण्डपुराणान्तर्गतं गरुडाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगरुडाष्टोत्तरशतनामस्तोत्रम्
READ
श्रीगरुडाष्टोत्तरशतनामस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
