श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रम् PDF संस्कृत
Download PDF of Gaurangashtottarashatanamastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रम् संस्कृत Lyrics
|| श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रम् ||
नमस्कृत्य प्रवक्ष्यामि देवदेवं जगद्गुरुम् ।
नाम्नामष्टोत्तरशतं चैतन्यस्य महात्मनाः ॥ १॥
विश्वम्भरो जितक्रोधो मायामानुषविग्रहः ।
अमायी मायिनां श्रेष्ठो वरदेशो द्विजोत्तमः ॥ २॥
जगन्नाथप्रियसुतः पितृभक्तो महामनाः ।
लक्ष्मीकान्तः शचीपुत्रः प्रेमदो भक्तवत्सलः ॥ ३॥
द्विजप्रियो द्विजवरो वैष्णवप्राणनायकः ।
द्विजातिपूजकः शान्तः श्रीवासप्रिय ईश्वरः ॥ ४॥
तप्तकाञ्चनगौराङ्गः सिंहग्रीवो महाभुजः ।
पीतवासा रक्तपट्टः षड्भुजोऽथ चतुर्भुजः ॥ ५॥
द्विभुजश्च गदापाणिः चक्री पद्मधरोऽमलः ।
पाञ्चजन्यधरः शार्ङ्गी वेणुपाणिः सुरोत्तमः ॥ ६॥
कमलाक्षेश्वरः प्रीतो गोपलीलाधरो युवा ।
नीलरत्नधरो रुप्यहारी कौस्तुभभूषणः ॥ ७॥
श्रीवत्सलाञ्छनो भास्वान् मणिधृक्कञ्जलोचनः ।
ताटङ्कनीलश्रीः रुद्र लीलाकारी गुरुप्रियाः ॥ ८॥
स्वनामगुणवक्ता च नामोपदेशदायकः ।
आचाण्डालप्रियाः शुद्धः सर्वप्राणिहिते रतः ॥ ९॥
विश्वरूपानुजः सन्ध्यावतारः शीतलाशयः ।
निःसीमकरुणो गुप्त आत्मभक्तिप्रवर्तकः ॥ १०॥
महानन्दो नटो नृत्यगीतनामप्रियः कविः ।
आर्तिप्रियः शुचिः शुद्धो भावदो भगवत्प्रियाः ॥ ११॥
इन्द्रादिसर्वलोकेशवन्दितश्रीपदाम्बुजः ।
न्यासिचूडामणिः कृष्णः संन्यासाश्रमपावनः ॥ १२॥
चैतन्यः कृष्णचैतन्यो दण्डधृङ्न्यस्तदण्डकः ।
अवधूतप्रियो नित्यानन्दषड्भुजदर्शकः ॥ १३॥
मुकुन्दसिद्धिदो दीनो वासुदेवामृतप्रदः ।
गदाधरप्राणनाथ आर्तिहा शरणप्रदः ॥ १४॥
अकिञ्चनप्रियः प्राणो गुणग्राही जितेन्द्रियः ।
अदोषदर्शी सुमुखो मधुरः प्रियदर्शनः ॥ १५॥
प्रतापरुद्रसन्त्राता रामानन्दप्रियो गुरुः ।
अनन्तगुणसम्पन्नः सर्वतीर्थैकपावनः ॥ १६॥
वैकुण्ठनाथो लोकेशो भक्ताभिमतरूपधृक् ।
नारायणो महायोगी ज्ञानभक्तिप्रदः प्रभुः ॥ १७॥
पीयूषवचनः पृथ्वी पावनः सत्यवाक्सहः ।
ओडदेशजनानन्दी सन्दोहामृतरूपधृक् ॥ १८॥
यः पठेत्प्रातरुत्थाय चैतन्यस्य महात्मनः ।
श्रद्धया परयोपेतः स्तोत्रं सर्वाघनाशनम् ।
प्रेमभक्तिर्हरौ तस्य जायते नात्र संशयः ॥ १९॥
असाध्यरोगयुक्तोऽपि मुच्यते रोगसङ्कटात् ।
सर्वापराधयुक्तोऽपि सोऽपराधात्प्रमुच्यते ॥ २०॥
फाल्गुनीपौर्णमास्यां तु चैतन्यजन्मवासरे ।
श्रद्धया परया भक्त्या महास्तोत्रं जपन्पुरः ।
यद्यत् प्रकुरुते कामं तत्तदेवाचिराल्लभेत् ॥ २१॥
अपुत्रो वैष्णवं पुत्रं लभते नात्र संशयः ।
अन्ते चैतन्यदेवस्य स्मृतिर्भवति शाश्वती ॥ २२॥
इति सार्वभौम भट्टाचार्यविरचितं
श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रम्
READ
श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
