गौरीगिरीशस्तोत्रम् PDF संस्कृत
Download PDF of Gaurigirishastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
गौरीगिरीशस्तोत्रम् संस्कृत Lyrics
|| गौरीगिरीशस्तोत्रम् ||
श्रीगणेशाय नमः ।
चन्द्रार्धप्रविभासिमस्तकतटौ तन्द्राविहीनौ सदा
भक्तौधप्रतिपालने निजतनुछायाजितार्कायुतौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ कारुण्यवारान्निधी
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ १॥
अन्योन्यार्च्चनतत्परौ मधुरवाक्सन्तोषितान्योन्यकौ
चन्द्रार्धाञ्चितशेखरौ प्रणमतामिष्टार्थदौ सत्वरम् ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ शृङ्गारजन्मावनी
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ २॥
सौदर्येण परस्परं प्रमुदितावन्योन्यचित्तस्थितौ
राकाचन्द्रसमानवक्त्रकमलौ पादाब्जकालङ्कृतौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ गङ्गातटावासिनौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ३॥
सिंहोक्षाग्र्यगती महोन्नतपदं सम्प्रापयन्तौ नता-
नंहोराशिनिवारणैकनिपुणौ ब्रह्मोग्रविष्ण्वर्चितौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ गाङ्गेयभूषोज्ज्वलौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ४॥
कस्तूरीघनसारचर्चिततनू प्रत्यूयमानौ सुरै-
रस्तूक्त्या प्रणतेष्टपूरणकरौ वस्तूपलब्धिप्रदौ ।
शृङ्गाद्रिस्थविवामण्डपगतावङ्गावधूतेन्दुभौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ५॥
वाणीनिर्जितहंसकोकिलरवौ पाणीकृताम्भोरुहौ
वेणीकेशविनिर्जिताहिचपलौ क्षोणीसमानक्षमौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ तुङ्गेष्टजालप्रदौ
कल्याणं तनुतां समस्तजगतां गैरीगिरीशौ मुदा ॥ ६॥
कामापत्तिविभूतिकारणदशौ सोमार्धभूषोज्ज्वलौ
सामाम्नायसुगीयमानचरितौ रामार्चिताङ्घ्रिद्वयौ ।
शृङ्गाद्रिस्थविवामण्डपगतौ माणिक्यभूषान्वितौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ७॥
दम्भाहङ्कृतिदोषशून्यपुरुषैः सम्भावनीयौ सदा
जम्भारातिमुखामरेन्द्रविनुतौ कुभात्मजाद्यर्चितौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ वाग्दानदीक्षाधरौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ८॥
शापानुग्रहशक्तिदाननिपुणौ तापापनोदक्षमौ
सोपानक्रमतोऽधिकारिभिरनुप्राप्यौ क्षमासागरौ ।
शृङ्गाद्रिस्थविवाहमण्डपगतौ लावण्यपाथोनिधी
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ९॥
शोणाम्भोरुहतुल्यपादयुगुलौ बाणार्चनातोषितौ
वीणाधृङ्मुनिगीयमानविभवौ बालारुणाभाम्बरौ ।
शृङ्गाद्रिस्थविवामण्डपगतौ तुल्याधिकैर्वर्जितौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ १०॥
इति गौरीगिरीशस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगौरीगिरीशस्तोत्रम्
READ
गौरीगिरीशस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
