श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रम् PDF संस्कृत
Download PDF of Gayatryashtottarashatanamastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रम् संस्कृत Lyrics
|| श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रम् ||
हरिः ॐ ।
तरुणादित्यसङ्काशा सहस्रनयनोज्ज्वला ।
विचित्रमाल्याभरणा तुहिनाचलवासिनी ॥ १॥
वरदाभयहस्ताब्जा रेवातीरनिवासिनी ।
प्रणित्ययविशेषज्ञा यन्त्राकृतविराजित ॥ २॥
भद्रपादप्रिया चैव गोविन्दपथगामिनी ।
देवर्षिगणसन्तुष्टा वनमालाविभूषिता ॥ ३॥
स्यन्दनोत्तमसंस्था च धीरजीमूतनिःस्वना ।
मत्तमातङ्गगमना हिरण्यकमलासना ॥ ४॥
दीनजनोद्धारनिरता योगिनी योगधारिणी ।
नटनात्यैकनिरता प्रणवाद्यक्षरात्मिका ॥ ५॥
घोराचारा क्रियासक्ता दारिद्र्यच्छेदकारिणी ।
यादवेन्द्रकुलोद्भूता तुरीयपदगामिनी ॥ ६॥
गायत्री गोमती गङ्गा गौतमी गरुडासना ।
गेयगानप्रिया गौरी गोविन्दपदपूजिता ॥ ७॥
गन्धर्वनगरागारा गौरवर्णा गणेश्वरी ।
गुणाश्रया गुणवती गह्वरी गणपूजिता ॥ ८॥
गुणत्रयसमायुक्ता गुणत्रयविवर्जिता ।
गुहावासा गुणाधारा गुह्या गन्धर्वरूपिणी ॥ ९॥
गार्गप्रिया गुरुपदा गुहलिङ्गाङ्गधारिणी ।
सावित्री सूर्यतनया सुषुम्नानाडिभेदिनी ॥ १०॥
सुप्रकाशा सुखासीना सुमतिस्सुरपूजिता ।
सुषुप्त्यवस्था सुदती सुन्दरी सागराम्बरा ॥ ११॥
सुधांशुबिम्बवदना सुस्तनी सुविलोचना ।
सीता सत्त्वाश्रया सन्ध्या सुफला सुविधायिनी ॥ १२॥
सुभ्रूस्सुवासा सुश्रोणी संसारार्णवतारिणी ।
सामगानप्रिया साध्वी सर्वाभरणभूषिता ॥ १३॥
वैष्णवी विमलाकारा महेन्द्री मन्त्ररूपिणी ।
महलक्ष्मीर्महासिद्धिर्महामाया महेश्वरी ॥ १४॥
मोहिनी मदनाकारा मधुसूदनचोदिता ।
मीनाक्षी मधुरावासा नगेन्द्रतना उमा ॥ १५॥
त्रिविक्रमपदाक्रान्ता त्रिसर्वा त्रिविलोचना ।
सूर्यमण्डलमध्यस्था चन्द्रमण्डलसंस्थिता ॥ १६॥
वह्निमण्डलमध्यस्था वायुमण्डलसंस्थिता ।
व्योममण्डलमध्यस्था चक्रिणी चक्ररूपिणी ॥ १७॥
कालचक्रवितानस्था चन्द्रमण्डल दर्पणा ।
ज्योत्स्नातपासुलिप्ताङ्गी महामारुतवीजिता ॥ १८॥
सर्वमन्त्राश्रया धेनुः पापघ्नी परमेश्वरी ।
नमस्तेऽस्तु महालक्ष्मि महासम्पत्तिदायिनि ॥ १९॥
नमस्ते करुणामूर्ति नमस्ते भक्तवत्सले ।
गायत्र्याः प्रजपेद्यस्तु नाम्नामष्टोत्तरं शतम् ॥ २०॥
फलश्रुतिः ।
तस्य पुण्यफलं रोद्धुं ब्रह्मणापि न शक्यते ।
प्रातःकाले च मध्याह्ने सायह्ने वा द्विजोत्तम ॥ २१॥
ये पठन्तीह लोकेऽस्मिन् सर्वान्कामानवाप्नुयात् ।
पठनादेव गायत्री नाम्नामष्टोत्तरं शतम् ॥ २२॥
ब्रह्महत्यादि पापेभ्यो मुच्यते नात्र संशयः ।
दिने दिने पठेद्यस्तु गायत्रीस्तवमुत्तमम् ॥ २३॥
स नरो मोक्षमाप्नोति पुनरावृत्तिवर्जितं
पुत्रप्रदमपुत्राणां दरिद्राणां धनपदम् ॥ २४॥
रोगिणां रोगशमनं सर्वैश्वर्यप्रदायकं
बहुनात्र किमुना स्तोत्रं शीघ्रं फलप्रदम् ॥ २५॥
इति श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगायत्र्यष्टोत्तरशतनामस्तोत्रम्
READ
श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
