गीतासारगुर्वष्टोत्तरशतनामस्तोत्रम् PDF संस्कृत
Download PDF of Gitasaragurvashtottarashatanamastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
गीतासारगुर्वष्टोत्तरशतनामस्तोत्रम् संस्कृत Lyrics
|| गीतासारगुर्वष्टोत्तरशतनामस्तोत्रम् ||
प्रशान्तात्मा विगतभीर्योगी विगतकल्मषः ।
योगयुक्तो विशुद्धात्मा यतचित्तेन्द्रियक्रियः ॥ १॥
स्वकर्मनिरतः शान्तो धर्मात्माऽमितविक्रमः ।
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ॥ २॥
स्थिरबुद्धिरसम्मूढो जितात्मा विगतस्पृहः ।
सर्वसङ्कल्पसंन्यासी भकः सङ्गविवर्जितः ॥ ३॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
एकाकी योगसंसिद्धो योगारूढोऽपरिग्रहः ॥ ४॥
ध्यानयोगपरो मौनी स्वस्थः संशुद्धकिल्बिषः ।
वीतरागभयक्रोधः स्थितधीर्विगतज्वरः ॥ ५॥
सर्वारम्भपरित्यागी कृत्स्नवित् कृत्स्नकर्मकृत् ।
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ॥ ६॥
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
अनिकेतः स्थिरमतिर्महात्मा दृडनिश्चयः ॥ ७॥
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षम आत्मवान् ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ ८॥
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ॥ ९॥
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितन्द्रियः ।
निस्त्रैगुण्यो वशी ज्ञानी समलोष्टाश्मकाञ्चनः ॥ १०॥
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ ११॥
विद्वानात्मरतिर्मुक्तो नित्यतृप्तो निराश्रयः ।
अन्तःसुखोऽन्तरारामः सन्तुष्टः सर्ववित्पुमान् ॥ १२॥
सर्वभूतात्मभूतात्मा तत्त्ववित्समदर्शनः ।
गतिर्भर्ता प्रभुःसाक्षी निवासः शरणं सुहृत् ॥ १३॥
आत्मतृप्तो गुरुः पूज्यो गरीयान् पुरुषोत्तमः ।
ब्रह्मभूतः प्रसन्नात्मा कृतकृत्यो विराजते ॥ १४॥
स्थितप्रज्ञो गुणातीतो लोकानुग्रहकाम्यया ।
शारदायाश्चरा मूर्तिः शृङ्गशैले जगद्गुरुः ॥ १५॥
गीतामध्यगतैरेव ग्रथितेयं पदैः शुभैः ।
आचार्येन्द्रपदाम्भोजे भक्त्या माला समर्प्यते ॥ १६॥
वक्तुं ब्रह्मविदां श्रेष्ठं मनोवाचामगोचरम् ।
कथमन्याः समर्थाः स्युर्वाचो भागवतीर्विना ॥ १७॥
इति श्रीकृष्णस्वाम्यार्येण विरचितं
गीतासारगुर्वष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगीतासारगुर्वष्टोत्तरशतनामस्तोत्रम्
READ
गीतासारगुर्वष्टोत्तरशतनामस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
