श्रीगोकुलनाथाष्टकम् PDF संस्कृत
Download PDF of Gokulanathashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीगोकुलनाथाष्टकम् संस्कृत Lyrics
|| श्रीगोकुलनाथाष्टकम् ||
भवभीतजनाखिलभीतिहरं
हरवन्दितनन्दतनूजरतम् ।
रतवृद्धगुरुद्विजभृत्यजनं
जनदुर्लभमार्गसुबोधकरम् ॥ १॥
करपद्मसुसेवितशैलधरं
धरणीतलविश्रुतसाधुगुणम् ।
गुणसिन्धुविमर्दितदुष्टमुखं
मुखकल्पितमार्गनिवृत्तिपरम् ॥ २॥
परमप्रियमङ्गलवेषधरं
वरबन्धुसुहृत्सुतलब्धसुखम् ।
सुखसागरमम्बुजचारुमुखं
मुखपङ्कजकीर्तितकृष्णकथम् ॥ ३॥
कथनीयगुणामृतवारिनिधिं
निधिसेवितमर्चितपद्मपदम् ।
पदपङ्कजसंश्रितविज्ञबुधं
बुधविठ्ठलनाथचतुर्थसुतम् ॥ ४॥
सुतरां करुणाब्धिमनन्तगुणं
गुणरत्नविराजितशुद्धतनुम् ।
तनुरत्नवशीकृतनन्दसुतं
सुतमित्रकलत्रसुसेव्यपदम् ॥ ५॥
पदपङ्कजपावितसाधुजनं
जनहेतुगृहीतमनुष्यतनुम् ।
तनुकान्तितिरस्कृतपञ्चशरं
शरणागतरक्षितभक्तजनम् ॥ ६॥
जनतोषणपोषणदत्तहृदं
हृदयार्पितगोपवधूरमणम् ।
रमणीयतरामलभक्तिकृतं
कृतकृष्णकथामृततृप्तजनम् ॥ ७॥
जनवाञ्छितकामदरत्नगुणं
गुणभूषणभूषितलोकगुरुम् ।
गुरुगोकुलनाथमुपास्यमहं
महतां परिसेवितमाकलये ॥ ८॥
श्रीमद्गोकुलनाथानामष्टकं यः पठेन्नरः ।
गोकुलेशपदाम्भोजभक्तिं स लभते पराम् ॥ ९॥
इति सिंहावलोकयमकगर्भ श्रीगोकुलनाथाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगोकुलनाथाष्टकम्
READ
श्रीगोकुलनाथाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
