श्रीगोकुलेशाष्टोत्तरशतनामस्तोत्रम् PDF संस्कृत
Download PDF of Gokuleshashtottarashatanamastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीगोकुलेशाष्टोत्तरशतनामस्तोत्रम् संस्कृत Lyrics
|| श्रीगोकुलेशाष्टोत्तरशतनामस्तोत्रम् ||
यन्नामाब्जं सदापूर्णं कृपाज्योत्स्नासमन्वितम् ।
पुष्टिभक्तिसुधावृष्टिकारकं च सुखाल्पदम् ॥ १॥
अथ नामशतं साष्टं वल्लभस्य वदाम्यहम् ।
देवता वल्लभो नाम्नां छन्दोऽनुष्टुप् सुखाकरम् ॥ २॥
फलं तु तत्पदाम्भोजे व्यसनं सर्वदा भवेत् ।
ऋषिस्तु विष्णुदासोऽत्र दासाय वरणं मतम् ॥ ३॥
वल्लभो गोकुलेशश्च विठ्ठलेशप्रियात्मजः ।
ताततुल्यस्वभावस्थो व्रजमङ्गलभूषणः ॥ ४॥
धराधरस्नेहदान्तो बहुनिर्दोषविग्रहः ।
भजनानन्दपीयूषपूर्णो मञ्जुदृगञ्चलः ॥ ५॥
दासवृन्दचकोरेन्दुः करुणादृष्टिवृष्टिकृत् ।
षट्कर्मवाञ्जनाधारः प्रतीतः पुरुषोत्तमः ॥ ६॥
दासलीलाविष्टचित्तो गोपीवल्लभवल्लभः ।
गृहस्थधर्मकर्ता च मर्यादामार्गरक्षकः ॥ ७॥
पुष्टिमार्गस्थितो नित्यं कृष्णप्रेमरसात्मकः ।
द्विजदारिद्र्यदुःखघ्नो वाञ्छाकल्पतरुर्महान् ॥ ८॥
अनन्यभक्तभावज्ञो मोहनादिसुखप्रदः ।
वल्लभेष्टप्रदो नित्यं गोकुलप्रीतिवर्धनः ॥ ९॥
दासजीवनरूपश्च कन्दर्पादपि सुन्दरः ।
पादपद्मरसस्पर्शसर्वारिष्टनिवारकः ॥ १०॥
मालीरक्षणकर्ता च शुद्धसत्कीर्तिवर्धनः ।
दुष्टानान्दोषहन्ता यो भक्तनिर्भयकारकः ॥ ११॥
इन्द्रादिभिर्नतो दक्षो लावण्यामृतवारिधिः ।
रसिको द्विजराजाख्यो द्विजवंशविभूषणः ॥ १२॥
असाधारणसद्धर्मा साधारः सुजनाश्रितः ।
क्षमावान् क्रोधमात्सर्यतिरस्कारादिवर्जितः ॥ १३॥
गोपीकान्तो मनोहारी दामोदरगुणोत्सवः ।
विहारी भक्तप्राणेशो राजीवदललोचनः ॥ १४॥
मुकुन्दानुग्रहोत्साही भक्तिमार्गरसात्मकः ।
भक्तभाग्यफलं धीरो बन्धुसज्जनवेष्टितः ॥ १५॥
वचनामृतमाधुर्यतृप्तसेवकसंस्तुतः ।
नित्योत्सवो नित्यश्रेयो नित्यदानपरायणः ॥ १६॥
भवबन्धनदुःखघ्नो महदाधिविनाशकः ।
रसभावनिगूढात्मा स्वीयेषु ज्ञापिताशयः ॥ १७॥ Possible missing verse
नयनानन्दकर्ता च विश्वमोहनरूपधृक् ।
श्रुतिस्मृतिपुराणादि-शास्त्रातत्त्वार्थपारगः ॥ १८॥
धनाढ्यो धनदो धर्मरक्षाकर्ता शुभप्रदः ।
सर्वेश्वरः सदापूर्णज्ञानवान् विबुधप्रियः ॥ १९॥
ब्रह्मवादे सविश्वासो मायावादादिखण्डनः ।
उग्रप्रतापवान् ध्येयो भृत्यदुःखनिवारकः ॥ २०॥
सतामात्माऽजातशत्रुर्जीवमात्रशुभस्पृहः ।
दीनबन्धुर्विधुः श्रीमान् दयालुर्भक्तवत्सलः ॥ २१॥
अनवद्यसुसङ्कल्पो जगदुद्धारणक्षमः ।
अनन्तशक्तिमान् शुद्धगम्भीरमृदुलाशयः ॥ २२॥
प्रणाममात्रसन्तुष्टः सर्वाधिकसुखप्रदः ।
शृङ्गारादिरसोत्कर्षचातुर्यवलितस्मितः ॥ २३॥
पादाम्बुजरजःस्पर्शमहापतितपावनः ।
पितृपालितसद्धर्मरक्षणोत्सुकमानसः ॥ २४॥
भक्तिसिद्धान्तमर्मज्ञो गूढभावप्रकाशकः ।
पुष्टिप्रवाहमर्यादामार्गनिर्धारकारकः ॥ २५॥
श्रीभागवतसारज्ञो सर्वाधिकतत्त्वबोधकः ।
अनन्यभावसन्तुष्टः पराश्रयनिवारकः ॥ २६॥
आचार्यार्ध्यस्वरूपश्च सदाद्भुतचरित्रवान् ।
तैलङ्गतिलको दैवीसृष्टिसाफल्यकारकः ॥ २७॥
इति श्रीगोकुलेशानां नामाब्जाभिधमुत्तमम् ।
स्तोत्रं सद्ब्रह्मभट्टेन विष्णुदासेन वर्णितम् ॥ २८॥
यः पठेच्छृणुयाद्भक्त्या प्रभुस्तस्य प्रियो भवेत् ।
संशयोऽत्र न कर्तव्यः समर्थो गोकुलेश्वरः ॥ २९॥
तत्कारुण्यबलेनैव मयैतत्प्रकटीकृतम् ।
पठन्तु साधवोऽप्येतत्तद्वद्देवानुकम्पया ॥ ३०॥
मदीयेयं तु विज्ञप्तिर्बुद्धिदोषप्रमत्तताम् ।
शोधयित्वा यथायुक्तं तथा कुर्वन्तु साधवः ॥ ३१॥
इति श्रीविष्णुदासविरचितमष्टोत्तरशतनाम्नां स्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगोकुलेशाष्टोत्तरशतनामस्तोत्रम्
READ
श्रीगोकुलेशाष्टोत्तरशतनामस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
