गोपालगुरुगोस्वामीप्रभोराष्टकम् PDF संस्कृत
Download PDF of Gopalagurugosvamiprabhorashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
गोपालगुरुगोस्वामीप्रभोराष्टकम् संस्कृत Lyrics
|| गोपालगुरुगोस्वामीप्रभोराष्टकम् ||
श्रीमन्मुरारितनयं विनयादमन्दं
वन्दे सदैव मकरध्वजपण्डिताख्यम् ।
श्रीगौरचन्द्रकृपयार्पितगौरवं श्री-
गोपालपूर्वगुरुरित्यभिधां दधे यः ॥ १॥
वन्दे तमेव तिलकं किल कल्पयित्वा
गौरप्रभुर्हरिपदाकृति यस्य भाले ।
स्वीयासने समुपवेश्य जगत्त्रयस्य
विस्मापिकामपि विकाशयति स्म शक्तिम् ॥ २॥
शिक्षागुरुं स्वकृपया स शचीतनूजो
यं कारणं किमपि वीक्ष्य चकार धीरम् ।
सिद्धाख्यायाप्यभिदधे स्वयमेव मञ्जु-
मेधेति तं गुरुवरं शरणं भजामि ॥ ३॥
श्रीराधया व्रजविधोरपि यश्च तुङ्ग-
विद्यानुगोऽप्यनुदिनं भजनेष्वनन्यः ।
नित्यं सखीगणयुतो रमते व्रजे श्री-
गोपालमेव कलये शरणं गुरुं तम् ॥ ४॥
गोस्वामिनः षडुदिता अधिकाश्चतुर्भिः
षष्ठिर्महान्त इह गौरहरेर्निदेशात् ।
गोपालका अतिशयात् किल यः शशंसुः
निःशंशया गुरुतया तमहं प्रणौमि ॥ ५॥
यत्प्रेमधन्यहृदयः स दयासमुद्रः
प्रोल्लास्य सान्द्रगुणतां प्रभुगौरचन्द्रः ।
जीवान् अतीवविनयेन समुद्दधार
वन्दे गुरूत्तममहं तमिमं महान्तम् ॥ ६॥
यस्तादृशोऽपि भगवद्गुणकर्मनाम्नां
सङ्कीर्तनश्रवणसंस्मरणादिभक्त्या ।
आपामरं जगदिदं स्वयमुद्दधार
गोपालपूर्वगुरुमेतमहं नतोऽस्मि ॥ ७॥
चैतन्यचन्द्रकृपया चिरमेव राधा-
कान्ताङ्घ्रिपद्मयुगयोः परिचर्ययोच्चैः ।
तद्भावभावितमतिर्न तनू बुबोध
गोपालपूर्वगुरुमेनमहं नतोऽस्मि ॥ ८॥
इति श्रीदीनबन्धुदासविरचितं गोपालगुरुगोस्वामीप्रभोराष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगोपालगुरुगोस्वामीप्रभोराष्टकम्
READ
गोपालगुरुगोस्वामीप्रभोराष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
