श्रीगोपाललालाष्टकम् PDF संस्कृत
Download PDF of Gopalalalashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीगोपाललालाष्टकम् संस्कृत Lyrics
|| श्रीगोपाललालाष्टकम् ||
श्रीमदाचार्यचरणौ साष्टाङ्गं प्रणिपन्पतौ ।
विरच्यतेऽष्टकमिदं श्रीमद्गोपालपुष्टिदम् ॥ १॥
यस्यानुकम्पावशतः सुदुर्लभं
मानुष्यमाप्तं परमस्य पुंसः ।
सर्वार्थदं दीनदयालुमेकं
गोपाललालं शरणं प्रपद्ये ॥ २॥
योऽदात्स्वसेवोपयिकं शरीरं
साङ्गं समर्थं शुभमर्थदं च ।
सेवाऽनभिज्ञः परमस्य तस्य
गोपाललालं शरणं प्रपद्ये ॥ ३॥
निजाङ्गसन्दर्शनयोगयोग्यता
योऽदाद्दृशं मे परमो दयालुः ।
तदङ्गसौन्दर्य्यरसावभिज्ञो
गोपाललालं शरणं प्रपद्ये ॥ ४॥
श्रीमत्कथासंश्रवणोपयोगि-
श्रोत्रं ददौ यः करुणारसाब्धिः ।
कथामृतास्वादनमूढचेता
गोपाललालं शरणं प्रपद्ये ॥ ५॥
वाचं ददौ श्रीगुणज्ञानयोग्यां
व्रजाङ्गनाङ्गाभरणाङ्गमूर्तिम् ।
तथापि नाम्नामनुकीर्तनेऽलसो
गोपाललालं शरणं प्रपद्ये ॥ ६॥
घ्राणेन्द्रियं मे तुलसीविमिश्र-
पादाञ्जसन्दिग्धपरागयोग्यम् ।
ददौ कृपालुर्ह्यपराधिने यो
गोपाललालं शरणं प्रपद्ये ॥ ७॥
शिरश्च पादाम्बुजसन्प्रणाम-
योग्यं ददौ यो यदुवंशचन्द्रः ।
स्तुत्या च नत्या विनयेन हीनो
गोपाललालं शरणं प्रपद्ये ॥ ८॥
जनोऽपराधानसकृद्विकुर्वन्
श्रोतो भवेद्यस्तु मनाक्षमायाम् ।
नवालसस्तं करुणैकबन्धुं
गोपाललालं शरणं प्रपद्ये ॥ ९॥
इति श्रीमद्गोस्वामिश्रीगिरधरजीकृतं
श्रीगोपाललालाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगोपाललालाष्टकम्
READ
श्रीगोपाललालाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
