गोपालयोगिकृता श्रीहरिस्तुतिः PDF संस्कृत
Download PDF of Gopalayogikrritashriharistutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
गोपालयोगिकृता श्रीहरिस्तुतिः संस्कृत Lyrics
|| गोपालयोगिकृता श्रीहरिस्तुतिः ||
महातेजःपुञ्जस्फुरदमलसिंहासनवरे
स्थितं सर्वाधीशं विमलतरतेजोमयतनुम् ।
भृशं धन्योऽहं त्वां दृशि समधिगम्याक्षर
शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ १॥
यतः सर्वं जातं वियदनिलमुख्यं जगदिदं
स्थितौ निःशेषं योऽवति निजसुखांशेन बहुधा ।
ये सर्वं स्वस्मिन् हरति कलया यस्तु स प्रभुः
शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ २॥
असूनाम्यादौ यमनियममुख्यैः सुकरणै-
निरुध्येदं चित्तं हृदि विलयमानीय सकलम् ।
यमीड्यं पश्यन्ति प्रवरमतयोऽसौ स्वहृदये
शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ ३॥
पृथिव्यां तिष्ठन् यो यमयति महीं वेद न धरा
यमित्यादौ वेदो वदति जगतामीशममलम् ।
नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमौ
शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ ४॥
जयन्तीन्द्राद्यास्ते दितिजनिचयान् यस्य बलतः
स्वतन्त्रो नो कश्चित् क्वचिदपि कृतौ यत्कृतिमृते ।
कवित्वादेर्वं परिहरति योऽसौ विजयिनः
शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ ५॥
विना यस्य ध्यानं व्रजति पशुतां सूकरमुखां
विना यस्य ज्ञानं जनिमृतिभयं याति जनता ।
विना यस्य स्मृत्या कृमिशतजनिं याति स हरिः
शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ ६॥
यदा धर्मग्लानिर्भवति जगतीक्षोभकरणी
तदा सर्वस्वामिन् प्रकटितवपुः सेतुधृगजः ।
सतां धाता चैवं निगमप्रमुखागीतगुणकः
शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ ७॥
स्वयं प्रादुर्भूतः परमकृपयाद्यात्र वृषजो
घनश्यामो वर्णी मुनिजनसखो बन्धुरपि मे ।
सदा स्मरास्याब्जः शरणशरणो भ्रान्तिहरणः
शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ ८॥
इति श्रीस्वामिनारायणबापाचरित्रामृतसागरे द्वितीयप्रवाहे
सप्तमे तरङ्गे गोपालयोगिकृता श्रीहरिस्तुतिः सम्पूर्णा ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगोपालयोगिकृता श्रीहरिस्तुतिः
READ
गोपालयोगिकृता श्रीहरिस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
