गोष्ठेश्वराष्टकम् PDF संस्कृत
Download PDF of Goshtheshvara8 Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
गोष्ठेश्वराष्टकम् संस्कृत Lyrics
|| गोष्ठेश्वराष्टकम् ||
सत्यज्ञानमनन्तमद्वयसुखाकारं गुहान्तःस्थित-
श्रीचिद्व्योम्नि चिदर्करूपममलं यद् ब्रह्म तत्त्वं परम् ।
निर्बीजस्थलमध्यभागविलसद्गोष्ठोत्थवल्मीक-
सम्भूतं सत् पुरतो विभात्यहह तद्गोष्ठेशलिङ्गात्मना ॥ १॥
सर्वज्ञत्वनिदानभूतकरुणामूर्तिस्वरूपामला
चिच्छक्तिर्जडशक्तिकैतववशात् काञ्चीनदीत्वं गता ।
वल्मीकाश्रयगोष्ठनायकपरब्रह्मैक्यकर्त्री मुहुः
नृणां स्नानकृतां विभाति सततं श्रीपिप्पिलारण्यगा ॥ २॥
श्रीमद्राजतशैलशृङ्गविलसच्छ्रीमद्गुहायां मही-
वार्वह्न्याशुगखात्मिकी विजयते या पञ्चलिङ्गाकृतिः ।
सैवाशक्तजनेषु भूरिकृपया श्रीपिप्पिलारण्यगे
वल्मीके किल गोष्ठनायकमहालिङ्गात्मना भासते ॥ ३॥
यत्राद्याप्यणिमादिसिद्धिनिपुणाः सिद्धेश्वराणां गणाः
तत्तद्दिव्यगुहासु सन्ति यमिदृग्दृश्या महावैभवाः ।
यत्रैव ध्वनिरर्धरात्रसमये पुण्यात्मभिः श्रूयते
पूजावाद्यसमुत्थितः सुमनसां तं राजताद्रिं भजे ॥ ४॥
श्रीमद्राजतपर्वताकृतिधरस्यार्धेन्दुचूडामणे-
र्लोमैकं किल वामकर्णजनितं काञ्चीतरुत्वं गतम् ।
तस्मादुत्तरवाहिनी भुवि भवान्याख्या ततः पूर्वगा
काञ्चीनद्यभिधा च पश्चिमगता निलानदी पावनी ॥ ५॥
श्रीमद्भार्गवहस्तलग्नपरशुव्याघट्टनाद् दारिते
क्षोणीध्रे सति वामदक्षिणगिरिद्वन्द्वात्मना भेदिते ।
तन्मध्यप्रथिते विदारधरणीभागेतिनद्याश्रये
सा नीलातटिनी पुनाति हि सदा कल्पादिगान् प्राणिनः ॥ ६॥
कल्पादिस्थलमध्यभागनिलये श्रीविश्वनाथाभिधे
लिङ्गे पिप्पिलकाननान्तरगतश्रीगोष्ठनाथाभिधः ।
श्रीशम्भुः करुणानिधिः प्रकुरुते सांनिध्यमन्यादृशं
तत्पत्नी च विराजतेऽत्र तु विशालाक्षीति नामाङ्किता ॥ ७॥
श्रीकाञ्चीतरुमूलपावनतलं भ्राजत्त्रिवेण्युद्भवं
त्यक्त्वान्यत्र विधातुमिच्छति मुहुर्यस्तीर्थयात्रादिकम् ।
सोऽयं हस्तगतं विहाय कुधिया शाखाग्रलीनं वृथा
यष्ट्या ताडितुमीहते जडमतिर्निःसारतुच्छं फलम् ॥ ८॥
श्रीमद्राजतशैलोत्थत्रिवेणीमहिमाङ्कितम् ।
गोष्ठेश्वराष्टकमिदं सारज्ञैरवलोक्यताम् ॥ ९॥
इति गोष्ठेश्वराष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगोष्ठेश्वराष्टकम्
READ
गोष्ठेश्वराष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
