श्रीगुरुभजनस्तोत्रम् PDF संस्कृत
Download PDF of Gurubhajanastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीगुरुभजनस्तोत्रम् संस्कृत Lyrics
|| श्रीगुरुभजनस्तोत्रम् ||
ध्यानम्
कर्णस्वर्णविलोलकुण्डलधराम् आपीनवक्षोरुहां
मुक्ताहारविभूषणां परिलसत्धम्मिलसम्मल्लिकाम् ।
लीलालोलित लोचनां शशिमुखीम् आबद्ध कांचीस्रजं
दीव्यन्तीं भुवनेश्वरीमनुदिनं वन्दामहे मातरम् ॥
ॐ श्रीगुरुभ्यो नमः ।
श्रीभवानीशङ्कराय नमः ।
कलाभिः कल्पिताशेष-भुवनानन्दभोजनम् ।
क्रीडन्तं त्रिपुरे नित्यं परसंविद्गुरुं भजे ॥ १॥
हर्याकारं हराकारं ह्रीङ्कारं वाम्बिकातनुम् ।
हृदयेऽद्वैतमात्मानं द्योतयन्तं गुरुं भजे ॥ २॥
शिवप्रियञ्च रुद्राक्षं गले भाले त्रिपुण्ड्र-कम् ।
करे संविन्मयीं मुद्रां धारयन्तं गुरुं भजे ॥ ३॥
काषायवसनोपेतं करुणार्द्रविलोचनम् ।
कामारिसेवनासक्तं कल्मषघ्नं गुरुं भजे ॥ ४॥
श्रितार्तिभेदनोद्युक्तं शर्मदं शमशोभितम् ।
श्रुत्यन्तवाक्यमनिशं श्रावयन्तं गुरुं भजे ॥ ५॥
संशयोच्छेदने दक्षं रक्षिताचार्यसन्ततिम् ।
स्वनाथ-करपाथोज-सञ्जातं सद्गुरुं भजे ॥ ६॥
दीक्षितं शिष्यमोक्षार्थे साक्षात्कृतमहत्पदम् ।
दक्षिणामुखदेवांशं ब्रह्मनिष्ठं गुरुं भजे ॥ ७॥
ग्रन्थिं भित्त्वा विनिर्यान्तं वर्षन्तं गगनेऽमृतम् ।
कोटिविद्युत्प्रतीकाशं शक्तिपुञ्जं गुरुं भजे ॥ ८॥
जनयित्वा निजानन्दे रक्षित्वा मां क्षणे क्षणे ।
पाययन्तं भक्तिरसं मातृभूतं गुरुं भजे ॥ ९॥
अनन्यभावनगम्यं अभयं ज्योतिरान्तरम् ।
इच्छाज्ञानक्रियामूलं आत्मरूपं गुरुं भजे ॥ १०॥
देशिकेश्वरपश्वादि-भेदशून्यं चिदम्बरम् ।
देशकालानवच्छिन्नं निर्विकल्पं गुरुं भजे ॥ ११॥
मज्जन्मजन्मसाफल्यमहो जातमयत्नतः ।
यदङ्घ्रिरेणुसंस्पर्शात् तमानन्दं गुरुं भजे ॥ १२॥
श्रीगुरुद्वादशात्मानं ध्यात्वा स्तोत्रमिमं पठेत् ।
साधकोत्तमः संविद्-दृष्टिसौष्ठवहेतवे ।
इति श्रीगुरुभजनस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगुरुभजनस्तोत्रम्
READ
श्रीगुरुभजनस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
