श्रीगुरुगजाननाष्टकम् PDF संस्कृत
Download PDF of Gurugajananashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीगुरुगजाननाष्टकम् संस्कृत Lyrics
|| श्रीगुरुगजाननाष्टकम् ||
ॐ श्री ।
श्रीशङ्कर ।
उद्धारणाय भवसागरतो नराणां
श्रीरामदासगुरुरागतवान्पुनश्च ।
तं पादनम्रमनुजार्तिहरं प्रसन्नं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ १॥
तीर्थेन यस्य पदयोर्भयदोषतापात्
संरक्षितश्च मरणोन्मुखजानरावः ।
तं पापपर्वतपविं भवरोगवैद्यं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ २॥
वापी जडान्तरनिभा मरुभूमिशुष्का
पूर्णा जलेन मधुना खलु यत्प्रसादात् ।
तं स्नेहशून्यहृदये जनितेशभक्तिं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ३॥
कृत्वा श्रुतेः पठनमागमशुद्धरीत्या
येनाञ्जसा द्रविडविप्रमदो निरस्तः ।
तं वेदवर्णित परात्मपदे वसन्तं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ४॥
मञ्चे ज्वलत्यपि निधाय निजासनं यः
सिद्धं चकार भगवद्वचनं प्रमाणम् ।
तत्त्वावबोधबलनिर्जितपावकं तं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ५॥
उच्छृङ्खलाश्वचरणेषु सुखं शयित्वा
यो दुष्टभावदमनं कृतवांस्तदीयम् ।
भक्तस्य मत्तचलचित्तनियामकं तं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ६॥
यस्याज्ञया विनतभक्तजनस्य भिन्नां
पारम्निनाय तरणीं स्वयमेव रेवा ।
दासीकृतात्मबलसर्वचराचरं तं
श्रीमद्गजाननगुरुं शिरसा नमामि ॥ ७॥
विज्ञापनाऽस्ति मम ते पदयोर्दयालो
पूजां च नैव भजनं स्तवनं न जाने ।
स्वीयेषु मां गणय पापमपाकुरुष्व
नो याचतेऽन्यदधुना गणुदासदासः ॥ ८॥
इति स्वामी वरदानन्दभारतीविरचितं श्रीगुरुगजाननाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगुरुगजाननाष्टकम्
READ
श्रीगुरुगजाननाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
