श्रीगुरुपादुकास्तोत्रम् २ PDF संस्कृत
Download PDF of Gurupadukastotram2 Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीगुरुपादुकास्तोत्रम् २ संस्कृत Lyrics
|| श्रीगुरुपादुकास्तोत्रम् २ ||
नालीकनीकाशपदादृताभ्यां नारीविमोहादिनिवारकाभ्याम् ।
नमज्जनाभीष्टततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ १॥
शमादिषट्कप्रदवैभवाभ्यां समाधिदानव्रतदीक्षिताभ्याम् ।
रमाधवाङ्घ्रिस्थिरभक्तिदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ २॥
नृपालिमौलिव्रजरत्नकान्तिसरिद्विराजज्झषकन्यकाभ्याम् ।
नृपत्वदाभ्यां नतलोकपङ्क्तेर्नमो नमः श्रीगुरुपादुकाभ्याम् ॥
अनन्तसंसारसमुद्रतारनौकायिताभ्यां गुरुभक्तिदाभ्याम् ।
वैराग्यसाम्राज्यदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ४॥
पापान्धकारार्कपरम्पराभ्यां तापत्रयाहीन्द्रखगेश्वराभ्याम् ।
जाड्याब्धिसंशोषणबाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ५॥
कवित्ववाराशिनिशाकराभ्यां दारिद्र्यदावाम्बुदमालिकाभ्याम् ।
दूरीकृतानम्रविपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ६॥
नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः ।
मूकश्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ७॥ (मूकाश्च)
कामादिसर्पव्रजभञ्जकाभ्यां विवेकवैराग्यनिधिप्रदाभ्याम् ।
बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ८॥
स्वार्चापराणामखिलेष्टदाभ्यां स्वाहासहायाक्षधुरन्धराभ्याम् ।
स्वान्ताच्छभावप्रदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ९॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीगुरुपादुकास्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगुरुपादुकास्तोत्रम् २
READ
श्रीगुरुपादुकास्तोत्रम् २
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
