गुरुप्रार्थना स्तोत्रम् PDF संस्कृत
Download PDF of Guruprarthanastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
गुरुप्रार्थना स्तोत्रम् संस्कृत Lyrics
|| गुरुप्रार्थना स्तोत्रम् ||
पृथ्वीमण्डलराजमाननृपमौल्याभात्किरीटोज्ज्वल-
द्रत्नाभाञ्चितपादयुगलश्रीमद्गुरो सत्वरम् ।
त्वत्पादैकशरण्यमन्दमतयेऽमुष्मै जनाय प्रभो
हस्तालम्बनमादराद्वितर मां दुःसंसृतेस्तारय ॥ १॥
श्रीमच्छङ्करदेशिकेन्द्ररचिते पीठे जगद्देशिक
त्वादृक्षाः शिवरूपिणोऽखिलविदो ब्रह्मस्थिता वर्तितुम् ।
युक्तं कोऽहमतीव मन्दधिषणो बाह्येषु सक्तोऽधुना
स्थातुं तद्भगवान्भवान्करुणया मामुद्धरत्वञ्जसा ॥ २॥
नित्यानित्यविवेकविरक्तिशमादिमुमुक्षुताहीनम् ।
दृष्ट्वा कृपार्द्रदृष्ट्या मुक्त्यध्वनि पथिकमातनुष्व गुरो ॥ ३॥
ज्ञानेतरेष्टदाने चतुराः कल्पद्रुमणिमुखाः सन्तु ।
लोकत्रयेऽपि सत्यं ज्ञानदवस्तु त्वया विना नास्ति ॥ ४॥
पापीयानिति मत्वा मां यदि लोकैकदेशिक त्यजसि ।
सर्वजनत्यक्तमिमं को वा परिपालयेत्कृपाजलधे ॥ ५॥
त्वत्पादाम्बुजयुगलं हित्वा नान्या गतिर्हि मे लोके ।
इति मत्वा तव चरणौ शरणं प्राप्तोऽस्मि करुणया रक्ष ॥ ६॥
नास्तिक्यतमसि लोके सर्वजनानां हृदम्बुजातानि ।
मलिनीकुर्वति धर्मे प्रायो नष्टे सदाशिवो भगवान् ॥ ७॥
गुरुरूपेण धरायामवतीर्याखिलजनानवन्विपदः ।
धिक्कृतसूर्यमहोभिर्नास्तिक्यतमो विनाश्य दुर्वारम् ॥ ८॥
कृत्वाऽनेकामानुषकार्याणि जनैः समर्चितो निखिलैः ।
तद्विदितशङ्करांशः लेभे स्वं धाम खलु विसृष्टाङ्गः ॥ ९॥
तत्तादृङ्महिमानं लोकानुग्रहनिबद्धदीक्षमहम् ।
वैराग्यदाननिरतं शरणं करवाणि देशिकं भक्त्या ॥ १०॥
यन्नैसर्गिककरुणालेशमनुप्राप्य मानवा जगति ।
स्वीयाचाररताः स्युस्तं देशिकवर्यमादरान्नौमि ॥ ११॥
श्रीमद्देशिकवर्यान्वन्देऽनुदिनं शिवाभिनवपूर्वान् ।
सच्चित्सुखरूपान् सद्विद्यां ददतः स्वपादनम्रेभ्यः ॥ १२॥
इति श्रीजगद्रुरु श्रीशृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती
श्रीपादैः विरचिता गुरुप्रार्थना स्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगुरुप्रार्थना स्तोत्रम्
READ
गुरुप्रार्थना स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
