श्रीहनुमदाचार्याष्टकम् PDF संस्कृत
Download PDF of Hanumadacharyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीहनुमदाचार्याष्टकम् संस्कृत Lyrics
|| श्रीहनुमदाचार्याष्टकम् ||
आनन्दभाष्यतत्त्वस्य वेदिनं ब्रह्मवादिनम् ।
वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥
संस्कृत्य पञ्चसंस्कारैवैष्णवत्वविधायिनम् ।
वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥
जित्वा चावैष्णवान् सिद्धान् वैष्णवधर्मरक्षकम् ।
वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
रामभक्तिप्रपत्तिभ्यां भक्तानामभयप्रदम् ।
वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
रामानन्दीयधर्मस्योपदेशाद् भक्तिमुक्तिदम् ।
वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
सिद्धेन्द्रं सिद्धिदातारं सिद्धयोगीन्द्रसेवितम् ।
वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
रामकीर्त्तनकर्त्तारं रामाराधनकारकम् ।
वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
हनूमतः कृपापात्रं रहस्यज्ञानसागरम् ।
वन्दे हनुमदाचार्यं द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीहनुमदाचार्याष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीहनुमदाचार्याष्टकम्
READ
श्रीहनुमदाचार्याष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
