श्रीहनूमत्स्तोत्रम् २ PDF संस्कृत
Download PDF of Hanumatstotram2 Sanskrit
Hanuman Ji ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीहनूमत्स्तोत्रम् २ संस्कृत Lyrics
|| श्रीहनूमत्स्तोत्रम् २ ||
आपन्नाखिललोकार्तिहारिणे श्रीहनूमते ।
अकस्मादागतोत्पातनाशनाय नमो नमः ॥ १॥
वामे करे वैरिभिदं वहन्तं शैलं परे शृङ्खलहारटङ्कम् ।
दधानमच्छाच्छसुवर्णवर्णं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ २॥
विभीषण उवाच
सीतावियुक्ते श्रीरामे शोकदुःखभयापह ।
तापत्रयाग्निसंहारिन्नाञ्जनेय नमोऽस्तुते ॥ ३॥
आधिव्याधिमहामारिग्रहपीडापहारिणे ।
प्राणापहर्त्रे दैत्यानां रामप्रियहितात्मने ॥ ४॥
संसारसागरावर्तगतनिश्रान्तचेतसाम् ।
शरणागतसञ्जीवी सौमित्रिप्राणरक्षकः ॥ ५॥
सुचरित्रः सदानन्दः सर्वदा भक्तवत्सलः ।
सुरद्विषां सुसंहारी सुग्रीवानन्दवर्धनः ॥ ६॥
य इदं हनुमत्स्तोत्रं पठेन्नित्यं नरोत्तमः ।
सिद्ध्यन्ति सर्वकार्याणि धनधान्यसमृद्धयः ॥ ७॥
मृत्युदारिद्र्यनाशं च सङ्ग्रामे विजयी भवेत् ।
लाभं च राजवश्यं च सत्यं पावनकीर्तनम् ॥ ८॥
परं मन्त्रं परं तन्त्रं परयन्त्रं निवारयेत् ।
परविद्याविनाशं च ह्यात्ममन्त्रस्य रक्षकम् ॥ ९॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीहनूमत्स्तोत्रम् २
READ
श्रीहनूमत्स्तोत्रम् २
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
