श्रीहठीनारायणाचार्याष्टकम् PDF संस्कृत
Download PDF of Hathinarayanacharyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीहठीनारायणाचार्याष्टकम् संस्कृत Lyrics
|| श्रीहठीनारायणाचार्याष्टकम् ||
मुक्तिप्रदं सद्भक्तिं दत्त्वा रामपदाब्जयोः ।
हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ १॥
सीतारामकथादक्षं रामतारकदीक्षकम् ।
हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ २॥
दर्शनान्नमताल्लोके पापिनां पापनाशकम् ।
हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ३॥
रामानन्दकृतानन्दभाष्यतत्त्वोपदेशकम् ।
हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ४॥
श्रीमद्वैष्णवधर्मस्य रक्षकं वर्धकं तथा ।
हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ५॥
शिष्याणां पञ्चसंस्कारान् विधाय योग्यताकरम् ।
हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ६॥
अद्वैतखण्डकं चाथ विशिष्टाद्वैतमण्डकम् ।
हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ७॥
मन्त्रत्रयार्थविद्वांसं विद्द्वद्त्सिद्धैश्च सेवितम् ।
हठीनारायणं वन्दे द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीहठीनारायणाचार्याष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीहठीनारायणाचार्याष्टकम्
READ
श्रीहठीनारायणाचार्याष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
