श्री इन्द्राक्षी कवचम् PDF हिन्दी
Download PDF of Indrakshi Kavacham Hindi
Misc ✦ Kavach (कवच संग्रह) ✦ हिन्दी
श्री इन्द्राक्षी कवचम् हिन्दी Lyrics
|| श्री इन्द्राक्षी कवचम् (Indrakshi Kavacham PDF) ||
ॐ श्रीगणेशाय नमः ।
देव्युवाच –
भगवान् देवदेवश लोकेश्वर जगत्पते ।
इन्द्राक्ष्याः कवचं ब्रूहि सर्वतत्त्वनिरूपिणम् ॥ १॥
श्रीभैरव उवाच
इन्द्राक्ष्याः कवचं पुण्यं सर्वतत्त्वनिरूपिणम् ।
जगच्चिन्तामणिं नाम सर्वमन्त्रैकसाधनम् ॥ २॥
यं धृत्वा कवचं ब्रह्माविष्णुर्भीमा शचीपतिः ।
यमोऽपि वरुणश्चैव कुबेरश्च दिगीश्वरः ॥ ३॥
ब्रह्मा सृजति विश्वं च विष्णुर्दैत्यनिषूदनः ।
शिवः संहरते विश्वं जिष्णुः सुमनसां पतिः ॥ ४॥
दिगीश्वराश्च दिक्पाला यथावदनु भूतले ।
जगच्चिन्तामणिं वश्ये भोगमोक्षैकसाधनम् ॥ ५॥
सर्वविद्यामयं ब्रह्मविद्यानिधिमनुत्तमम् ।
जगच्चिन्तामणे देवि कवचस्यास्य कीर्तितः ॥ ६॥
देवीन्द्राक्षी परा प्रोक्ता ह्रीं बीजं शक्तिनी स्मृता ।
कीलकं प्रणवः प्रोक्तस्त्रिवर्गफलसाधने ॥ ७॥
अस्य श्री इन्द्राक्षीकवचस्य पुरन्दरऋषिः, बृहतीच्छन्दः, इन्द्राक्षी देवता ।
ह्रीं बीजं, श्रीं शक्तिः, प्रणवः कीलकम् ।
त्रिवर्गफलसाधने विनियोगः ।
ॐ ह्रीं श्रीं वज्रहस्ता मे शिरो रक्षतु सर्वदा ।
ऐं सौंः क्लीं पातु मे भालं वज्रिणी वज्रिसेविता ॥ १॥
फट् स्वाहा वज्रहस्ता च पातु नेत्रे ममानिशम् ।
ॐ ह्रां कर्णौ सदा पातु ॐ श्रां गण्डौ सदावतु ॥ २॥
ॐ ॐ मे नासिका पातु परमा परमेश्वरी ।
ॐ ऐं मुखं च मे पातु वीरधीरैकसुन्दरी ॥ ३॥
ॐ क्लीं जिह्वां सदा रक्षेद्देवता शशिसुन्दरी ।
ॐ क्लां कण्ठं ममाव्याद्वै देवता सूर्यसुन्दरी ॥ ४॥
ॐ सः स्कन्धौ सदा पातु देवी श्रीवह्निसुन्दरी ।
ॐ ऐं ह्रं मे उरः पातु देवता ऋक्षसुन्दरी ॥ ५॥
ॐ ऐं श्रीं मे स्तनौ पातु देवी कुलिशसुन्दरी ।
ॐ श्रीं ह्रीं मेऽवतात्पार्श्वे देवी श्रीतिथिसुन्दरी ॥ ६॥
ॐ ह्रां सौंः मेऽवतात्कुक्षिं देवी श्रीयोगसुन्दरी ।
ॐ श्रीं ह्रौं पातु मे नाभिं देवता पाशसुन्दरी ॥ ७॥
ॐ श्रीं मे पातु जठरं देवी कमलसुन्दरी ।
ॐ ह्रूं क्रीं पातु मे बाहू देवी खट्वाङ्गसुन्दरी ॥ ८॥
ॐ ह्रां श्रीं पातु मे हस्तौ देवी मार्गणसुन्दरी ।
ॐ क्रां ह्रां पातु मे ष्टष्ठं देवी भद्राङ्गसुन्दरी ॥ ९॥
ॐ ह्रीं सौंः पातु मे वस्तिं देवी पञ्चास्यसुन्दरी ।
ॐ श्रूं ह्रां क्रीं कटिं पातु देवता टङ्कसुन्दरी ॥ १०॥
ॐ श्रीं स्रीं पातु मेशिश्नं देवी पीतनसुन्दरी ।
ॐ ह्रीं ह्रूं मेऽवताद्गुह्यं देवी पातालसुन्दरी ॥ ११॥
ॐ श्रीं क्लौं पातु मामूरू देवी ब्राह्मणसुन्दरी ।
ॐ ऐं स्तौंः मे रक्षेज्जानुनी देवी ब्रह्मसुन्दरी ॥ १२॥
ॐ श्रींवै पातु मे जङ्घे देवता विष्णुसुन्दरी ।
ॐ स्रां ह्रां ऐं सदाऽव्यान्मे गुल्फौ गीर्वाणासुन्दरी ॥ १३॥
ॐ ह्रीं श्रीं पातु मे पादौ देवता शिवसुन्दरी ।
ॐ स्रीं हूं पातु मे पूर्वे देवता यक्षसुन्दरी ॥ १४॥
ॐ जुं सः पातु मे वह्रौ देवता दैत्यसुन्दरी ।
ॐ ऐं क्लीं पातु मे दक्षे देवता प्रेतसुन्दरी ॥ १५॥
ॐ श्रां पातु मे नैरृत्यां देवी रक्षससुन्दरी ।
ॐ श्रीं मां पातु वारुण्यां देवी वरुणसुन्दरी ॥ १६॥
ॐ क्रौं हूं पातु वायव्यं देवता वायुसुन्दरी ।
ॐ हूं पातु कौवीर्यां देवी पिशाचसुन्दरी ॥ १७॥
ॐ ह्रीं श्रीं पातु मामीशे देवतेशानसुन्दरी ।
ॐ ऐं हुं पातु मामूर्ध्वे देवी गगनसुन्दरी ॥ १८॥
ॐ ह्रीं अधस्तान्मे मायादेवी पन्नगसुन्दरी ।
ॐ ॐ ह्रीं मे प्रभतेऽव्याद्देवी ब्रह्माण्डसुन्दरी ॥ १९॥
ॐ क्रौं क्लीं पातु मां रात्रौ देवी त्रैलोक्यसुन्दरी ।
ॐ क्लिं पातु निशीथे मां देवी श्रीकामसुन्दरी ॥ २०॥
ॐ ह्रां क्रूं मां निशान्तेऽव्याद्देवता लोकसुन्दरी ।
सर्वत्र सर्वदा पातु देवी मां रूपसुन्दरी ॥ २१॥
रणे राजकुले पूजे विवादे रिपुसग्रनि ।
दावाग्न्यरण्यभीतौ च पोताव्यौ जुररोगतः ॥ २२॥
महाव्याधिषु मां पातु इन्द्राक्षी चेन्द्रसुन्दरी ।
ॐ ह्रीं श्रीं ऐं सौः क्लीं पायादिन्द्राक्षी मां भवाम्बुधेः ॥ २३॥
शिरसः पादपर्यन्तं पादादिमस्तकान्तकम् ।
ॐ ह्रीं श्रीं सर्वभीतिभ्यः इन्द्राक्षी पातु मे वपुः ॥ २४॥
फलश्रुतिः –
इतीदं कवचं पुण्यं सर्वविद्यानिरूपणम् ।
जगच्चिन्तामणिं नाम त्रिषु लोकेशु दुर्लभम् ॥ १॥
सर्वतत्त्वमयं दिव्यं सर्वतन्त्रैकरूपिणम् ।
सर्वागममयं तत्त्वं गोप्तव्यं पशुसङ्कटे ॥ २॥
अर्धरात्रौ च मध्याह्ने रवौ कुङ्कुमकेन च ।
भूर्जत्वचि लिखेद्वर्म धारयेन्मूर्ध्नि वा भुजे ॥ ३॥
रणे सर्वान् रिपून् जित्वा कल्याणी गृहमाविशेत् ।
वन्ध्या वामभुजे धृत्वा ऋतुस्नात्वाह्नि पञ्चमे ॥ ४॥
धृत्वाऽचिरेण कालेन लभते तनयान् बहून् ।
ज्वरादयश्च ये रोगाः सत्रिपातादिकुष्ठकाः ॥ ५॥
विद्रवन्ति भयत्रस्ताः कवचस्यास्य धारणात् ।
सप्तजन्मार्जितं पापं दहत्पग्निरिवेन्धनम् ॥ ६॥
इन्द्रप्रभृतयो देवाः कामक्रोधादयोऽरयः ।
जीवादयश्च गुरवः शुक्राद्याः कवयस्तथा ॥ ७॥
भूपप्रभृतयो मर्त्या वश्यमेष्यन्ति वर्मणः ।
धारणात्पठनात्सत्यं सर्वविद्येश्वरो भवेत् ॥ ८॥
धनवान्पुत्रवान् श्रीमान्पठनात्साधको भवेत् ।
इतीदं कवचं गुह्यं गुह्याद्गुह्यतरं परम् ॥ ९॥
जगच्चिन्तामणिं नाम गोप्तव्यं च दुरात्मभ्यः ।
इन्द्राक्ष्याः सर्वसर्वस्वं सारात्सारोत्तमोत्तमम् ।
अदातव्यमवक्तव्यमित्याज्ञापरमेश्चरि ॥ १०॥
॥ इति श्रीरुद्रयामले तन्त्रे इन्द्राक्षीकवचं समाप्तम् ॥
॥ शुभमस्तु ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री इन्द्राक्षी कवचम्
READ
श्री इन्द्राक्षी कवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
