जम्बुनाथाष्टकम् PDF संस्कृत
Download PDF of Jambunathashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
जम्बुनाथाष्टकम् संस्कृत Lyrics
|| जम्बुनाथाष्टकम् ||
। श्री श्रीधरवेङ्कटेशार्येण विरचितम् ।
कश्चन जगतां हेतुः कपर्दकन्दलितकुमुदजीवातुः ।
जयति ज्ञानमहीन्दुर्जन्ममृतिक्लांतिहरदयाबिन्दुः ॥ १॥
श्रितभृतिभद्धपताकः कलितोत्पलवननवमदोद्रेकः ।
अखिलाण्डमातुरेकः सुखयत्वस्मांस्तपःपरीपाकः ॥ २॥
कश्चन कारुण्यझरः कमलाकुचकलशकषणनिशितशरः ।
श्रीमान् दमितत्रिपुरः श्रितजंभूपरिसरश्चकास्तु पुरः ॥ ३॥
शमितस्मरदवविसरश्शक्राद्याशास्यसेवनावसरः ।
करिवनघनभाग्यभरो गिरतु मलं मम मनस्सरश्शफरः ॥ ४॥
गृहिणीकृतवैकुण्ठं गेहितजंभूमहीरुडुपकण्ठम् ।
दिव्यं किमप्यकुण्ठं तेजः स्तादस्मदवनसोत्कण्ठम् ॥ ५॥
कृतशमनदर्पहरणं कृतकेतरफणितिचारिरथचरणम् ।
शक्रादिश्रितचरणं शरणं जंभूद्रुमांतिकाभरणम् ॥ ६॥
करुणारसवारिधये करवाणि नमः प्रणम्रसुरविधये ।
जगदानन्दधुनिधये जंभूतरुमूलनिलयसन्निधये ॥ ७॥
कश्चन शशिचूडालं कण्ठेकालं दयौघमुत्कूलम् ।
श्रितजंभूतरुमूलं शिक्षितकालं भजे जगन्मूलम् ॥ ८॥
॥ जम्बुनाथाष्टकं संपूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowजम्बुनाथाष्टकम्
READ
जम्बुनाथाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
