जिनदेवदर्शनस्तोत्रम् PDF संस्कृत
Download PDF of Jinadevadarshanastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
जिनदेवदर्शनस्तोत्रम् संस्कृत Lyrics
|| जिनदेवदर्शनस्तोत्रम् ||
दर्शनं देवदेवस्य दर्शनं पापनाशनम् ।
दर्शनं स्वर्गसोपानं दर्शनं मोक्षसाधनम् ॥ १॥
दर्शनेन जिनेन्द्राणां साधूनां वन्दनेन च ।
न चिरं तिष्ठते पापं छिद्रहस्ते यथोदकम् ॥ २॥
वीतरागमुखं दॄष्ट्वा पद्मरागसमप्रभम् ।
जन्मजन्मकृतं पापं दर्शनेन विनश्यति ॥ ३॥
दर्शनं जिनसूर्यस्य संसार-ध्वान्त-नाशनम् ।
बोधनं चित्त-पद्मस्य समस्तार्थ-प्रकाशनम् ॥ ४॥
दर्शनं जिनचन्द्रस्य सद्धर्मामृत-वर्षणम् ।
जन्म-दाह-विनाशाय वर्धनं सुख-वारिधे ॥ ५॥
जीवादि-तत्त्वं प्रतिपादकाय सम्यक्त्व-मुख्याष्ट-गुणार्णवाय ।
प्रशान्त-रूपाय दिगम्बराय देवाधिदेवाय नमो जिनाय ॥ ६॥
चिदानन्दैक-रूपाय जिनाय परमात्मने ।
परमात्म-प्रकाशाय नित्यं सिद्धात्मने नमः ॥ ७॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य-भावेन रक्ष रक्ष जिनेश्वर ॥ ८॥
न हि त्राता न हि त्राता न हि त्राता जगत्त्रये ।
वीतरागात्परो देवो न भूतो न भविष्यति ॥ ९॥
जिने भक्तिर्जिने भक्तिर्जिने भक्तिर्दिने दिने ।
सदा मेऽस्तु सदा मेऽस्तु सदा मेऽस्तु भवे भवे ॥ १०॥
जिनधर्म-विनिर्मुक्तो मा भवेच्चक्रवर्त्यपि ।
स्याच्चेटोऽपि दरिद्रोऽपि जिनधर्मानुवासित ॥ ११॥
जन्म-जन्मकृतं पापं जन्म-कोटिमुपार्जितम् ।
जन्म-मृत्यु-जरा-रोगं हन्यते जिन-दर्शनात् ॥ १२॥
अद्याभवत्सफलता नयन-द्वयस्य
देव त्वदीय-चरणां-बुज-वीक्षणेन ।
अध्य् त्रिलोक-तिलकं प्रतिभासते मे
संसार-वारिधिरयं चुलुक-प्रमाणम् ॥ १३॥
इति जिनदेवदर्शनं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowजिनदेवदर्शनस्तोत्रम्
READ
जिनदेवदर्शनस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
