श्रीकालहस्तीश्वराष्टकम् १ PDF संस्कृत
Download PDF of Kalahastishvarashtakam1 Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीकालहस्तीश्वराष्टकम् १ संस्कृत Lyrics
|| श्रीकालहस्तीश्वराष्टकम् १ ||
श्रीलसद्विलासलोलशेषतल्पसायकं
शैलकन्यकास्यचन्दचन्द्रिकाचकोरकम् ।
भालनेत्रवह्निदग्धपञ्चबाणरूपकं
कालहस्तिनायकं सुखप्रदायकं भजे ॥ १॥
कालकूटभीकराग्निकण्ठमध्यधारणं
कालकर्मखाम्बुकाशखण्डनोग्रहारिणम् ।
कालमृत्युगर्ववल्लिकासमूलदारणं
कालहस्तिनायकं सुखप्रदायकं भजे ॥ २॥
स्थूलसूक्ष्मनित्यसत्यशोभितं शुभोदितं
बालचन्द्रशेखरं कृपासुधारसाकरम् ।
लालितव्रतार्थिलोकबालकर्णमूलकं
कालहस्तिनायकं सुखप्रदायकं भजे ॥ ३॥
बालिकावियोगियोगिभावपद्मवासितं
धालधल्यकोटिशीतधामसुप्रकाशितम् ।
कीलसन्निभाग्रशातशूलवृद्धगाशितं
कालहस्तिनायकं सुखप्रदायकं भजे ॥ ४॥
भ्रूलतानिरीक्षणप्रभूतलोकजालकं
लोलताद्रिजालसत्कपोल(कन्धरं) शिवम् ।
खेलसत्प्रकल्पितेन्द्रजालतन्त्रकीलकं
कालहस्तिनायकं सुखप्रदायकं भजे ॥ ५॥
व्यालमक्षिकाग्ररत्नमातृकाविभूषणं
कालसिन्धुकासुरारिपङ्क (रूप)भूषणम् ।
शीलवर्तनप्रयुक्तशिष्टभक्तपोषणं
कालहस्तिनायकं सुखप्रदायकं भजे ॥ ६॥
नीलदेहसेवितामरालदेहयापितं
मूलमन्त्रकर्णमूर्तिमोचनं त्रिलोचनम् ।
शूलिनं सुवर्णसिन्धुमौलिनं कपालिनं
कालहस्तिनायकं सुखप्रदायकं भजे ॥ ७॥
क्षालितप्रभक्तकर्मजातरोगकर्दमं
क्षालिकासनाथमिन्द्रशैलराजकर्दमम् ।
ज्वालितात्मरोषभीषकेलिदक्षनिर्दमं
कालहस्तिनायकं सुखप्रदायकं भजे ॥ ८॥
॥ इति श्रीकालहस्तीश्वराष्टकं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीकालहस्तीश्वराष्टकम् १
READ
श्रीकालहस्तीश्वराष्टकम् १
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
