कालहस्तीश्वरस्तुतिः PDF संस्कृत
Download PDF of Kalahastishvarastutih2 Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
कालहस्तीश्वरस्तुतिः संस्कृत Lyrics
|| कालहस्तीश्वरस्तुतिः ||
ॐ श्रीमहागणपतये नमः ।
गण्डूषस्य समं न्यधायि भवता मन्दाकिनी मस्तके
क्रत्र्यस्य प्रतिपादनेऽस्य सदृशो हस्ते मृगः स्थापितः ।
नेत्रस्यापि सदृक्षमक्षिदशकं प्रादायि पञ्चोत्तरं
किं वर्ण्येत कृतज्ञता तव विभो श्रीकालहस्तीश्वर ॥ १॥
विन्यस्ते शबरेण मूर्ध्नि चरणे देहः कृतोऽप्यष्टवा
गण्डूषैरभिषेचने विरचिते वक्त्रं कृतं पञ्चधा ।
उच्छिष्टे विनिवेदिते पुनरसौ रूक्षं विषं भोजितः
शिक्षामस्य करोषि कर्मसदृशं श्रीकालहस्तीश्वर ॥ २॥
पाणौ तीक्ष्णपरश्वथः सहरिणः फालान्तराले शिखी
पाथो मूर्ध्नि च विद्यते तव करे पात्रं विधातुः शिरः ।
पक्तुं वामतनौ नगेन्द्रतनया किं वा किरातानन-
प्रभ्रष्टामिषवाञ्छितं कलयसि श्रीकालहस्तीश्वर ॥ ३॥
पादपाषाणगण्डूषपादुकाचापताडनैः ।
ज्ञातेयं तव गौरीश पितृमातृविहीनता ॥ ४॥
सर्वात्मता ते श्रुतिषु प्रसिद्धा सत्यैव सा कालकरीश नूनम् ।
अपश्यतस्त्वामधुना समस्तं यतो न मे दृष्टिपथं प्रयाति ॥ ५॥
नाहं विभूतिपरिकल्पितफालदेशो
रुद्राक्षदामपरिवेष्टितकन्धरो वा ।
श्रीकालहस्तिनगरीश्वरदासदास-
दासानुदासजनकिङ्करकिङ्करोऽस्मि ॥ ६॥
॥ इति श्रीकालहस्तीश्वरस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowकालहस्तीश्वरस्तुतिः
READ
कालहस्तीश्वरस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
