हरिप्रोक्तं कामाख्याकवचम् PDF संस्कृत
Download PDF of Kamakhyakavachamhariproktam Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
हरिप्रोक्तं कामाख्याकवचम् संस्कृत Lyrics
|| हरिप्रोक्तं कामाख्याकवचम् ||
ॐ श्रीकामाख्याकवचस्यर्षिर्बृहस्पतिः स्मृतः ॥ ४५॥
देवी कामेश्वरी तस्य अनुष्टुप्छन्द इष्यते ।
विनियोगः सर्वसिद्धौ तं च शृण्वन्तु देवताः ॥ ४६॥
शिरः कामेश्वरी देवी कामाख्या चक्षुषी मम ।
शारदा कर्णयुगलं त्रिपुरा वदनं तथा ॥ ४७॥
कण्ठे पातु महामाया हृदि कामेश्वरी पुनः ।
कामाख्या जठरे पातु शारदा मां तु नाभितः ॥ ४८॥
त्रिपुरा पार्श्वयोः पातु महामाया तु मेहने ।
गुदे कामेश्वरी पातु कामाख्योरुद्वये तु माम् ॥ ४९॥
जानुनो शारदा पातु त्रिपुरा पातु जङ्घयोः ।
महामाया पादयुगे नित्यं रक्षतु कामदा ॥ ५०॥
केशे कोटेश्वरी पातु नासायां पातु दीर्घिका ।
भैरवी दन्तसङ्घाते मातङ्ग्यवतु चाङ्गयोः ॥ ५१॥
बाह्वोर्मां ललिता पातु पाण्योस्तु वनवासिनी ।
विन्ध्यवासिन्यङ्गुलिषु श्रीकामा नखकोटिषु ॥ ५२॥
रोमकूपेषु सर्वेषु गुप्तकमा सदावतु ।
पादाङ्गुलीः पार्ष्णिभागे पातु मां भुवनेश्वरी ॥ ५३॥
जिह्वायां पातु मां सेतुः कः कण्ठाभ्यन्तरेऽवतु ।
लः पातु चान्तरे वक्ष हः पातु जठरान्तरे ॥ ५४॥
सामीन्दुः पातु मां वस्ताविन्दुबिन्द्वन्तरेऽवतु ।
अकारस्त्वचि मां पातु रकारोऽस्थिषु सर्वदा ॥ ५५॥
लकारः सर्वनाडीषु ईकारः सर्वसन्धिषु ।
चन्द्रः स्नायुषु मां पातु विन्दुमज्जासु सन्ततम् ॥ ५६॥
पूर्वस्यां दिशि चाग्नेय्यां दक्षिणे नैरृते तथा ।
वारुण्यां चैव वायव्यां कौबेरे हरमन्दिरे ॥ ५७॥
अकाराद्यास्तु वैष्णव्या अष्टौ वर्णास्तु मन्त्रगाः ।
पान्तु तिष्ठन्तु सततं समुद्भवविवृद्धये ॥ ५८॥
ऊर्ध्वाधः पातु सततं मां तु सेतुद्वयं सदा ।
नवाक्षराणि मन्त्रेषु शारदामन्त्रगोचरे ॥ ५९॥
नवस्वरं तु मां नित्यं नासादिषु समन्ततः ।
वातपित्तकफेभ्यस्तु त्रिपुरायास्तु त्र्यक्षरम् ॥ ६०॥
नित्यं रक्षतु भूतेभ्यः पिशाचेभ्यस्तथैव च ।
तत्सेतू सततं पातां क्रव्याद्भ्योमान्निवारकौ ॥ ६१॥
नमः कामेश्वरीं देवीं महामायां जगन्मयीम् ।
या भूत्वा प्रकृतिर्नित्यं तनोति जगदाद्यताम् ॥ ६२॥
कामाख्यामक्षमालाभयवरदकरां सिद्धसूत्रैकहस्तां-
श्वेतप्रेतोपरिस्थां मणिकनकयुतां कुङ्कुमापीतवर्णाम् ।
ज्ञानध्यानप्रतिष्ठामतिशयविनयां ब्रह्मशक्रादिवन्द्या-
मग्नौ बिन्द्वन्तमन्त्रप्रियतमविषयां नौमि सिद्ध्यै रतिस्थाम् ॥ ६३॥
मध्ये मध्यस्य भागे सततविनमिता भावहावावलीया-
लीला लोकस्य कोष्ठे सकलगुणयुता व्यक्तरूपैकनम्रा ।
विद्याविद्यैकशान्ता शमनशमकरी क्षेमकर्त्री वरास्या
नित्यं पातात् पवित्रप्रणववरकरा कामपूर्वैश्वरी नः ॥ ६४॥
इति हरकवचं तनुस्थितं शमयति वै शमनं तथा यदि ।
इह गृहाण यतस्व विमोक्षणे सहित एष विधिः सह चामरैः ॥ ६५॥
इत्ययं कवचं यस्तु कामाख्यायाः पठेद्बुधः ।
सकृत् तं तु महादेवी त्वनुव्रजति नित्यदा ॥ ६६॥
नाधिव्याधिभयं तस्य न क्रव्याद्भ्यो भयं तथा ।
नाग्नितो नापि तोयेभ्यो न रिपुभ्यो न राजतः ॥ ६७॥
दीर्घायुर्बहुभोगी च पुत्रपौत्रसमन्वितः ।
आवर्तयञ्छतं देवी-मन्दिरे मोदते परे ॥ ६८॥
यथा तथा भवेद्बद्धः सङ्ग्रामेऽन्यत्र वा बुधः ।
तत् क्षणादेव मुक्तः स्यात् स्मरणात् कवचस्य तु ॥ ६९॥
इति कालिकापुराणे द्विसप्ततितमाध्यायान्तर्गतं
हरिप्रोक्तं कामाख्याकवचं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowहरिप्रोक्तं कामाख्याकवचम्
READ
हरिप्रोक्तं कामाख्याकवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
