श्रीकामेश्वरकवचम् PDF संस्कृत
Download PDF of Kameshvarakavacham Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्रीकामेश्वरकवचम् संस्कृत Lyrics
|| श्रीकामेश्वरकवचम् ||
ॐ श्रीगुरवे शिवायों नमः ।
श्रीदेव्यै सदासुफलदायिन्यै नमः ।
श्रीदेव्युवाच
भगवन् करुणाम्भोधे शास्त्राम्भोनिधिपारग ।
दासी परमभक्तास्मि वरं दातुमिहार्हसि ॥ १॥
श्रीभैरव उवाच
कथयस्व महेशानि कमितो वरमिच्छसि ।
यत्किञ्चिन्मनसीष्टं स्यात्तद्दातुं ते क्षमोऽस्म्यहम् ॥ २॥
श्रीदेव्युवाच
कामेश्वरस्य देवेश कवचं देवदुर्लभम् ।
शीघ्रं मे दयया ब्रूहि यद्यहं प्रेयसी तव ॥ ३॥
श्रीभैरवौवाच
शृणुष्व परमेशानि कवचं मन्मुखोदितम् ।
महाकामेश्वरस्यास्य न देयं परमाद्भुतम् ॥ ४॥
यं धृत्वा यं पठित्वा च यं श्रुत्वा कवचोत्तमम् ।
त्रैलोक्याधिपतिर्भूत्वा सुखितोऽस्मि महेश्वरि ॥ ५॥
तदेवं वर्णयिष्यामि तव प्रीत्या वरानने ।
रहस्यं परमं तत्त्वं न दातव्यं दुरात्मने ॥ ६॥
अस्यश्रीकामेश्वरकवचमन्त्रस्य श्रीदक्षिणामूर्ति ऋषिः ।
पङ्क्ति छन्दः । श्रीकामेश्वरो देवता ।
श्रीं बीजं, ह्रीं शक्तिः, क्लीं कीलकम् ।
चतुर्वर्गफलप्राप्त्यर्थं कवचपाठे विनियोगः ।
अथ ध्यानम् ।
उद्यच्चन्द्रसमानदीप्तिममृतानन्दैकहेतुं परं
चिद्रूपं भुवनैकसृष्टिप्रलयोद्भूतैकरक्षापरम् ।
कोटी चन्द्रगलत्सुधाद्भुततनुं हारादिभूषोज्ज्वलं
शुलं खड्गवरौ तथाभयकरं कामेश्वरं भावये ॥
ऐँ कं कामेश्वरः पातु क्लीं शिवो मे ललाटकम् ।
सौं मे कर्णौ च कामेशः तारं मे लोचनद्वयम् ॥ १॥
श्रीं गं डौं मे महाकालो ह्रीं नासां चन्द्रचूडकः ।
हं मे ओष्टौ त्रिपुरेशः सं मे दन्तौ च भैरवः ॥ २॥
क्षं मे जिह्वां पातु देवो महाकामेश्वरः परः ।
सम्मोहनं सदा पातु महावटुकभैरवः ॥ ३॥
यं मे स्कन्धौ सदा पातु महामृत्युञ्जयस्तथा ।
ऊं मे भुजौ सदा पातु श्रीं देवस्त्रिपुरान्तकः ॥ ४॥
सं मे हस्तौ त्रिलोकेशः हं नखान् पातु सुन्दरः ।
क्षं दक्षः पातु शामेशो मं कुक्षिं कृत्तिका वरः ॥ ५॥
लं पार्श्वौ पातु मे बाला वं नाभिं ब्रह्मभूषकः ।
रं वस्तिं पातु मे देवो यं पृष्ठं विष्णुरूपकः ॥ ६॥
ऊं शिश्नं पातु विश्वेशः अमृतेश्वरभैरवः ।
यं मेढ्रे पातु मे रुद्रो रं गुह्यं गुह्यकेश्वरः ॥ ७॥
लं कटिं पात मे नित्यं शिवः परमकारणः ।
वं ऊरू त्रिपुराध्यक्षः लं जानू देवपालकः ॥ ८॥
मं जङ्घे पातु महिमा यं गुल्फौ सूर्यरूपकः ।
श्रीं जठरं हरः पातु ह्रीं मनोहरसुन्दरः ॥ ९॥
ॐ बुद्धिं पातु मे रुद्रः सौः रसं दक्षजापतिः ।
क्लीं रक्तं पातु मे देवो ऊर्ध्वं च वह्निरूपधृक् ॥ १०॥
ऐं सौं सं गुह्यकः पातु मेरुः पशुपतिस्तथा ।
अस्थिं मे गिरिजानाथो मज्जां मे नीलकण्ठकः ॥ ११॥
शुक्रं भूतेश्वरः पातु मूर्धानं शङ्करोऽवतु ।
पादौ श्रीं सुन्दरीशानो देवः कालान्तकः प्रभुः ॥ १२॥
पादादिशिरःपर्यन्तमघोरः पातु सर्वदा ।
शिरसः पादपर्यन्तं सद्योजातो ममावतु ॥ १३॥
प्रौढरूपः सदा पातु स्वाहा मे सकलं वपुः ।
कामेश्वरः प्रभातेऽव्यान्मध्याह्ने कालभैरवः ॥ १४॥
सायं पातु कुलेशानो निशीथे निष्कलेश्वरः ।
अर्धरात्रे वामदेवो निशान्ते सुमहोदयः ॥ १५॥
सर्वदा सर्वतः पातु ऐं क्लीं सौं बीजरूपधृक् ।
पूर्वे मामसिताङ्गोऽव्यात् दक्षिणे रुरुभैरवः ॥ १६॥
पश्चिमे पातु चण्डेशो ह्युत्तरे क्रोधभैरवः ।
ऐशान्यां पातु चोन्मत्तः कपालेशस्तथाग्निके ॥ १७॥
नैरृत्यां भीषणः पातु वायौ संहारकोऽवतु ।
ऊर्ध्वं मे कालरुद्रश्च पाताले परमेश्वरः ॥ १८॥
मध्ये सदाशिवः पातु त्रिकूटेशः सदावतु ।
दशदिक्षु सदा पातु महाकामेश्वरोऽवतु ॥ १९॥
विस्मारितं च यत्स्थानं यत्स्थानं नामवरर्जितम् ।
तत्सर्वं पातु मे देवस्त्रिपुरःपतिरीश्वरः ॥ २०॥
गृहे शर्वः सदा पातु बहिः पायाद्वृषध्वजः ।
पथि त्रिपुरसुन्दर्यः पातु सर्वत्र सर्वदा ॥ २१॥
रणे राजकुले दुर्गे दुर्भिक्षे शत्रुसंसदि ।
द्यूते मारीभये राष्ट्रे विप्लवे वादिनां कुले ॥ २२॥
कामेश्वरः सदा पातु भयस्थाने च सर्वदा ।
इत्येतत्कवचं गुह्यं त्रिषु लोकेषु दुर्लभम् ॥ २३॥
मूलमन्त्रमयं दिव्यं त्रिलोकीसारमुत्तमम् ।
अदातव्यमभक्ताय कवचं गुह्यमीश्वरि ॥ २४॥
अदृष्टव्यमश्रोतव्यं दीक्षाहीनाय मन्त्रिणे ।
परदीक्षाय शिष्याय पुत्राय शरजन्मने ॥ २५॥
न दातव्यं न श्रोतव्यमित्याज्ञां मामकीं शृणु ।
परं श्रीमहिमानं च शृणु चास्य सुवर्मणः ॥ २६॥
अदीक्षितो यदा मन्त्री विद्यां गृध्नुः पठेदिदम् ।
सुशिक्षित इति ज्ञेयो मान्त्रिकः साधकोत्तमः ॥ २७॥
गुरुपूजां विधायास्य विधिवत्प्रपठेत्ततः ।
कवचं त्रिःसकृद्वापि यावज्ज्ञानं च वा पुनः ॥ २८॥
एतच्छतार्थमावर्त्य त्रैलोक्यविजयी भवेत् ।
यः पठेन्मनसान्तस्तु रात्रौ ब्राह्मे मुहूर्तके ॥ २९॥
पूजाकाले निशीथे तु तस्य हस्तस्य सिद्धयः ।
दुःस्वप्ने बन्धने घोरे कान्तारे सागरे भये ॥ ३०॥
रजःसत्त्वतमोरूपवर्म कामेश्वरस्य तु ।
काङ्क्षन्ते मनसा यद्यत्तत्तत्प्राप्नोति साधकः ॥ ३१॥
महाकविर्भवेन्मासात्सर्वसिद्धीश्वरो भवेत् ।
कुङ्कुमेन लिखित्वा वै भूर्जत्वचि रवौ दिने ॥ ३२॥
प्रातःकाले शुभर्क्षे च स्वर्णस्थं धारयेद्यदि ।
शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद्बुधः ।
यद्यदिष्टं भवेत्तत्तत्साधको लभतेऽचिरात् ॥ ३३॥
यद्गृहे वर्तते वर्म श्रीकामेश्वरदैवतम् ।
विद्याकीर्तिर्धनारोग्यं लक्ष्मीर्वृद्धिर्न संशयः ॥ ३४॥
विना बलिं न संरक्ष्यं कवचं साधकत्तमैः ।
चेद्रक्ष्यं तत्सुतान् दारान्नायुर्भक्षति योगिनी ॥ ३५॥
बलिं दत्वा पठेद्वर्म धारयेन्मूर्ध्नि साधकः ।
पुत्रवान् धनवान् श्रीमान् नानाविद्यानिधिर्भवेत् ।
इह भोगान् समश्नाति परत्र मुक्तिभाग्भवेत् ॥ ३६॥
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रस्पर्शनात्ततः ।
नाशमायाति सर्वत्र कवचस्यास्य धारणात् ॥ ३७॥
मृतवत्सा वामबाहौ कवचस्यास्य धारणात् ।
बह्वपत्या जीववत्सा भवत्येव न संशयः ॥ ३८॥
रणेष्टत्वाचरेद्युद्धं हत्वा शत्रून् जयं लभेत् ।
जयं कृत्वा गृहं देवि स प्राश्यति सुखी नरः ॥ ३९॥
महाभये महाघोरे महामारीभये तथा ।
दुर्भिक्षे शत्रुसङ्ग्रामे पठेत्कवचमादरात् ।
सर्वं तत्प्रशमं याति कामेश्वरप्रसादतः ॥ ४०॥
कवचस्यास्य देवेशि वर्णितुं नैव शक्यते ।
महिमानं महादेवि जिह्वाकोटिशतैरपि ॥ ४१॥
इदं कवचमज्ञात्वा यो जपेत मनुं शिवे ।
सप्तलक्षप्रजप्तापि तस्य विद्या न सिद्ध्यति ॥ ४२॥
अदातव्यमिदं वर्म मन्त्रगर्भं रहस्यकम् ।
अवक्तव्यं महापुण्यं सर्वसारस्वतप्रदम् ॥ ४३॥
अदीक्षिताय नो दद्यात् कुचैलाय दुरात्मने ।
न देयं परशिष्येभ्योऽभक्तेभ्योऽपि विशेषतः ॥ ४४॥
शिष्येभ्यो भक्तियुक्तेभ्यः प्रदेयं भावनावशात् ।
इति श्रीदेवदेवेशि वर्म कामेश्वरस्य तु ।
गुह्यं गोप्यतमं गोप्यं कथितं तव भक्तितः ॥ ४५॥
इत्येष पटलो देवि परमाद्भुतकारणः ।
कथितो देवदेवेशि तव भक्तिवशान्मया ॥ ४६॥
न वक्तव्यो न दातव्यो दीक्षाहीनाय पार्वति ।
यथावद्गोपनीयोऽसौ सिद्ध्यष्टकफलो मतः ॥ ४७॥
यावत्कालं भवेद्गुप्तस्तावत्तु फलदायकः ।
न चेद्गुप्तो भवेद्देवि सिद्धिहानिर्भवेद्ध्रुवम् ॥ ४८॥
रहस्योद्घाटनायास्मान्महिमा हीयतान्मनोः ।
तस्मात्सर्वत्र गोप्तव्यः सायकैः पटलोत्तमः ।
यथेष्टकामदश्चेह परत्र मोक्षदः प्रिये ॥ ४९॥
इति श्रीविश्वसारतन्त्रे पार्वतीपरमेश्वरसंवादे
श्रीकामेश्वरकवचं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीकामेश्वरकवचम्
READ
श्रीकामेश्वरकवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
