श्रीकरपात्राष्टकम् PDF संस्कृत
Download PDF of Karapatrashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीकरपात्राष्टकम् संस्कृत Lyrics
|| श्रीकरपात्राष्टकम् ||
केचिद् भजन्ति विबुधा हरिमीशितार
ञ्चाऽन्ये हरं भवनिदाघहरं श्रयन्ति ।
धर्माऽऽर्तिखिन्नमनसां समुपासनीयं
प्रत्यक्षितं हरिहराद्वयमद्वयन्नः ॥ १॥
सद्राजनीतिनिपुणः किमु विष्णुगुप्तो
वाचस्पतिर्निखिलशास्त्रविचक्षणो वा ।
आहो शुको नु भगवद्गुणगानधन्यो
यस्मिन्नितीव समशायि यतिः स वन्द्यः ॥ २॥
यस्याऽवसन्नवरसा रसने सरस्व-
त्याभान्ति लेखतनवोऽतनुकीर्तिलेखाः ।
चेतस्य भूत्सरसिजोदरसौकुमार्यं
स्मार्यो न कस्य स वशी शयभाजनार्यः ॥ ३॥
वन्द्यः स योऽकृतकृती सुकृतार्थसंस्थाः
रामायणे श्रुतिषु चाऽतत वाक्प्रवाहान् ।
नैष्कर्म्यमूर्ध्वमधिताधिधरं तथापि
कर्मेतराऽकृततरं व्यधिताऽऽप्रयाणम् ॥ ४॥
यः सत्कविर्गुरुगुरुर्बुधमङ्गलात्मा
तीव्रप्रतापतपनश्च सतां च सोमः ।
धर्मद्विषां शनिरथो मदिनाञ्च राहुः
केतुः कलेर्जयति दण्डिवरः स कोऽपि ॥ ५॥
कारागमैः शिरसि दण्डनिपातघातै-
रप्येजनं न जनितं किल यस्य जातु ।
दीपः सनातनसृतेरपि गीष्पतेर्यो
वार्येतरो हृदि विभाति स नः सदाऽऽर्यः ॥ ६॥
तिष्ठेत् प्रणष्टकुहकः सुपथे नरौघः
पारेऽम्बुधिं जनगिरा प्रसरं प्रयातु ।
गावश्चरन्तु परितोऽस्तभया घटोध्न्यः
स्वप्नस्तवेति यतिराट् ! फलिता कदा नु ! ॥ ७॥
यो दण्डिवर्योऽतियतीन्द्रचर्यः
श्रौताऽध्वनोऽभूद्भुवनेषु धुर्यः ।
श्रेयो भृतां शश्वदपीह चार्यो
धार्यः स चित्ते करपात्र आर्यः ॥ ८॥
इति श्रीशशिधरशर्माविरचितं श्रीकरपात्राष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीकरपात्राष्टकम्
READ
श्रीकरपात्राष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
