श्रीकाशीविश्वनाथस्तुतिः PDF संस्कृत
Download PDF of Kashivishvanathastutih Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीकाशीविश्वनाथस्तुतिः संस्कृत Lyrics
|| श्रीकाशीविश्वनाथस्तुतिः ||
दुर्गाधीशो द्रुतिज्ञो द्रुतिनुतिविषयो दूरदृष्टिर्दुरीशो
दिव्यादिव्यैकराध्यो द्रुतिचरविषयो दूरवीक्षो दरिद्रः ।
देवैः सङ्कीर्तनीयो दलितदलदयादानदीक्षैकनिष्ठो
दानी दीनार्तिहारी भवदवदहनो दीयतां दृष्टिवृष्टिः ॥ १॥
क्षेत्रज्ञः क्षेत्रनिष्ठः क्षयकलितकलः क्षात्रवर्गैकसेव्यः
क्षेत्राधीशोऽक्षरात्मा क्षितिप्रथिकरणः क्षालितः क्षेत्रदृश्यः ।
क्षोण्या क्षीणोऽक्षरज्ञो क्षरपृथुकलितः क्षीणवीणैकगेयः
क्षौरः क्षोणीध्रवर्ण्यः क्षयतु मम बलक्षीणतां सक्षणं सः ॥ २॥
क्रूरः क्रूरैककर्मा कलितकलकलैः कीर्तनीयः कृतिज्ञः
कालः कालैककालो विकलितकर्णः कारणाक्रान्तकीर्तिः ।
कोपः कोपेऽप्यकुप्यन् कुपितकरकराघातकीलः कृतान्तः
कालव्यालालिमालः कलयतु कुशलं वः करालः कृपालुः ॥ ३॥
गौरी स्निह्यतु मोदतां गणपतिः शुण्डामृतं वर्षताद्
नन्दीशः शुभवृष्टिमावितनुतां श्रीमान् गणाधीश्वरः ।
वायुः सान्द्रसुखावहः प्रवहतां देवाः समृद्धादयाः
सम्पूर्तिं दधतां सुखस्य नितरां विश्वेश्वरः प्रीयताम् ॥ ४॥
श्रीविश्वेश्वरमन्दिरं प्रविलसेत् सम्पूर्णसिद्धं शुभं
पुष्टं तुष्टसुखाकरं प्रभवतां सम्मोदमोदावहम् ।
एतद्दर्शनकामना जगति सञ्जायेत सन्निन्दतः
सर्वेषां भगवान् महेश्वरकृपापूर्णो निरीक्षेत नः ॥ ५॥
इति काशीपीठाधीश्वरः श्रीमहेश्वरानन्दः विरचिता
श्रीकाशीविश्वनाथस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीकाशीविश्वनाथस्तुतिः
READ
श्रीकाशीविश्वनाथस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
