श्रीकाशीविश्वेस्वरस्तोत्रं अथवा श्रीदीनाक्रन्दनम् PDF संस्कृत
Download PDF of Kashivishveshvarastotramdinakrandanam Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीकाशीविश्वेस्वरस्तोत्रं अथवा श्रीदीनाक्रन्दनम् संस्कृत Lyrics
|| श्रीकाशीविश्वेस्वरस्तोत्रं अथवा श्रीदीनाक्रन्दनम् ||
ॐ श्रीगणेशाय नमः ।
चुण्ठीजलैरिव सुखैः परिणामदुःखैः
आस्वादितैरपि मनागविलुप्ततृष्णः ।
श्रान्तोऽस्मि हा भवमरौ सुचिरं चरित्वा
तच्छायया चरणयोः शिव मां भजेथाः ॥ १॥
दुर्वारसंसृतिरुजा भृशकान्दिशीकः
त्वामोषधीपतिभृतं सुकृतैरवाप्य ।
आवेदयामि यदहं तव तन्निदानं
तत्रावधेहि मृड मा कुरु मय्यवज्ञाम् ॥ २॥
दुर्वासनाशतवशादशुचित्वमीक्ष्य
या मे हठात्कृतवती मनसि प्रवेशम् ।
साऽनेकजन्ममरणावटपातनेन
मां राक्षसीव बहु नाथ तुदत्यविद्या ॥ ३॥
घोरे क्षणं विनिपतन्नरके क्षणं च
पुण्यं पदं दिविषदां सहसाऽधिरोहन् ।
मोहेन कन्दुकदशामिव नीयमानः
स्वामिन् सहे किमवधीनि गतागतानि ॥ ४॥
का मे गतिर्विशति नैव मनो विवेकः
स्वप्नेऽपि पक्कणमिव प्रवरो द्विजानाम् ।
रुद्धेऽपि तत्र न स रोढुमलं मुहूर्तं
विश्वेश मौक्तिकमिवोपरि दर्पणस्य ॥ ५॥
पित्रोर्जघन्यरसबिन्दुयुगं गृहीत्वा
हन्तासकृत्पतितवानधिगर्भवासम् ।
तद्दुःखमन्वभवमीश गभीरकुम्भी-
पाको वराक इति यस्य पुरो गृणन्ति ॥ ६॥
तत्र स्थितस्तदनु तत्तदनेकपूर्व-
जन्मान्तरस्मरणविस्मयदुःखितात्मा ।
अस्मान्निसृत्य पुनरुद्भवभङ्गहेतोः
चेतो विधास्य इति चाकरवं प्रतिज्ञाम् ॥ ७॥
तेनाध्वनाथ निसृतोऽस्मि ततः स्मृतेऽपि
यस्मिन्निकाममभिमानधनास्त्रपन्ते ।
संस्पर्शतस्तु शतशः शितिकर्मवायोः
प्रायो निगूढदृढमूढदशामवापम् ॥ ८॥
तिर्यग्दशामिव शनैरविवेकसेकात्
वर्षाण्यवाप्य परमेश्वर पञ्चषाणि ।
तत्तत्कृतं पतदपि स्मृतिसीम्नि यद्यत्
सद्यो ह्रियं जडधियोऽपि हृदि प्रसूते ॥ ९॥
आसाद्य यौवनमथो बहुभिः प्रकारैः
शृङ्गारभङ्ग्यनुगुणैर्गुणिताविवेकः ।
जातोऽस्मि घोरनरकावहकर्मयोगात्
भोगाशया प्रशमितोभयलोकशुद्धिः ॥ १०॥
मोहात्कृतः परिणयोऽप्यनयो महीयान्
मूलं समस्तभवबन्धनदुर्गतीनाम् ।
यस्मादुदेत्य दुरपत्यजनेन सृष्ट-
स्नेहोऽस्मि वेष्टीत इवोत्कटनागपाशैः ॥ ११॥
तत्पोषणाय विदुषाऽपि मया समस्तं
औचित्यमुज्झितवताऽऽत्तवता कुकृत्यम् ।
द्वारि श्ववल्लडितमेव कदीश्वराणां
सोढावमानशतविक्लवमानसेन ॥ १२॥
प्राणाधिकैरथ वियोगमवाप्य तैस्तैः
इष्टैररुन्तुदविषादवशंवदेन (मया)।
स्त्रीवन्मया विलपितं विहितं न किञ्चित्
कृत्यं सतां समुचितं हहहा हतोऽस्मि ॥ १३॥
सांसारिकेषु विषयेषु निपत्य राग-
द्वेषैकनिष्ठहृदयो भगवन्नभूवम् ।
आसीददन्तकभयप्रतिकूलवृत्ति
किञ्चिन्मया न रचितं विदितं न वापि ॥ १४॥
इत्थं न किं व्यवहृतं न किमुक्तमात्तं
किं वा न किं न कलितं ललितं न वापि ।
सर्वत्र तत्र शरणं कृपणस्य मे त्वं
एह्योहि देहि चरणं शिरसीन्दुमौले ॥ १५॥
याः प्रोत्कटा भ्रुकुटयो यमकिङ्कराणां
पीडाश्च या नवनवा नरकावनीपु ।
ताश्चिन्तिता अपि भयाय ममाधुनैव
सोढास्मि ताः कथमहो विषमो विषादः ॥ १६॥
भीतोऽस्मि दुर्गततमोऽस्मि कदर्थितोऽस्मि
पापोऽस्मि विस्मृतसदध्वपरिग्रहोऽस्मि ।
तत्केन केन न पथास्मि कृपाऽऽस्पदं ते
मत्वेति शङ्कर यथोचितमाचरेथाः ॥ १७॥
नो यत्र बन्धुरथ नैव पिता न माता
नो वा सुहृद्धृतिमुपेत्य विधातुमीष्टे ।
तास्वेत्य नाथ मम नारकभूषु कुर्याः
त्राणं त्वमेव हि जगत्सु दयार्द्रचेताः ॥ १८॥
भ्रष्टोऽस्मि यद्यापि सतां चरितात्तथापि
मां त्रातुमर्हसि कृतान्ताभिया श्रयन्तम् ।
प्रेह्वेषु विह्वलतया शरणागतेषु
नो साधवो विदधते सदसद्विवेकम् ॥ १९॥
येष्वन्धकारनिकरेण करालिता भूः
यत्र ज्वलन्ति नरकेष्वनिशं हुताशाः ।
धामत्रयीनयन निर्जरसिन्धुमूर्धन्
तत्रेतरस्त्वमिव कः शरणं नराणाम् ॥ २०॥
प्राग्यावदिन्द्रियगणः पटुशक्तिरासीत्
स्वामिन् स तावदगमद्विषयेषु निष्ठाम् ।
शक्तिक्षयेऽद्य स कथं भजते भवन्तं
जन्मेति मे विफलमीश किमाः करोमि ॥ २१॥
नादायि दानमथ नैव तपो व्यधायि
नासेवि तीर्थदिगसाध्यतरः समाधिः ।
तत्काऽपरत्र गतिरस्त्यनवाप्तपुण्य-
ज्ञानस्य मे भव भवत्स्मृतिमन्तरेण ॥ २२॥
कालान्न मे भयमथो कनके न लिप्सा
नैवास्मि शैशववशेन पयः पिपासुः ।
त्वद्दर्शनाय तु शिव स्पृहयामि लोभात्
तत्रापि किं तव न वा सुकरः प्रकारः ॥ २३॥
यज्जन्म दुर्लभमुशन्ति मनुष्यलोके
तत्प्राप्तमप्यतनुपूर्वशुभप्रभावात् ।
जातं वृथैव मम यत्र मुहुः कदाऽपि
नैवान्वभावि भवदर्चनभक्तिसौख्यम् ॥ २४॥
जातिर्महेश्वर भुजङ्गमपुङ्गवानां
स्तुत्या वरं भवदलङ्कृतिवाहकृत्यैः ।
मानुष्यकं तु मम धिक्कलया कयापि
यन्नोपयोगमगमत्त्वयि मच्छिरीरम् ॥ २५॥
शश्वद्भृशव्यसनितामपि मेऽवधार्य
धत्से कथं परमकारुणिकोऽप्यवज्ञाम् ।
किं नाथ पश्यसि न यत्परिहृत्य शङ्कां
लग्नोऽनिशं शिव शिवेति मम प्रलापः ॥ २६॥
रक्तार्द्रचर्मवसनाय महास्मशान-
धाम्नेऽस्थिभूषणवते फणिकङ्कणाय ।
रक्षःपिशाचसचिवाय बलिं प्रयामः
रूपाय ते हर युगान्तनिशाचराय ॥ २७॥
दिव्योत्तरीयभृति कौस्तुभरत्नभाजि
देवेऽपरे दधतु लुब्धधियोऽनुबन्धम् ।
रूपं दिगम्बरमखण्डनृमुण्डचूडं
भावत्कमेव तु बतेश मम स्पृहायै ॥ २८॥
जीवामि चेदथ पृथुप्रियविप्रयोग-
रोगादयो नरकदुःखभियोऽन्यथाऽपि ।
घ्नन्त्येव मामुभयथाऽप्यसुखोऽहमित्थं
अत्रोचितं हर चर स्वकृपालुतायाः ॥ २९॥
यत्रेन्द्रियाणि विरमन्ति निजक्रियाभ्यः
यात्यान्तरोऽपि करणप्रसरोऽवसादम् ।
प्राणास्त्रुटन्ति च समस्तनिराशभूतं
मामेत्य शङ्कर कुतोऽपि तदा दयेथाः ॥ ३०॥
स्वाशेषपूर्वदुरितस्मरणादुदेति
यत्रासमं भयमसुप्रशमप्रसङ्गे ।
कः कान्दिशीकमनसः शरणं तदा मे
स्वामिंस्तवैव समयः स कृपालुतायाः ॥ ३१॥
अद्यैव यामि शरणं परमेश्वर त्वां
शक्ष्यामि किं तनु तदाऽऽहतसर्वशक्तिः ।
मृत्युर्यदा मम भयाय पतत्यकस्मात्
अन्धस्य वक्त्र इव हस्ततलप्रहारः ॥ ३२॥
आर्तिक्षणे सपदि विस्मर तात मातः
इत्यादिकं च विफलं कृपणापलापम् ।
शर्वेश शङ्कर शिवेति नुतिं भजस्व
जिह्वे यतो विघटतेऽखिलदुःखभारः ॥ ३३॥
स्वास्थ्ये मदात्कति न दुश्चरितानि नाम
नाथ व्यधां गतविवेकतया विशङ्कः ।
संस्मृत्य मृत्युभयमद्य तु विह्वलोऽस्मि
श्रीकण्ठ भोक्तुमपि येन न पारयामि ॥ ३४॥
पूर्वं न चेद्विरचिता तव देव सेवा
तेनैव नैव दयसे श्रयतो ममार्तिम् ।
किं प्रागसंस्तुत इति प्रतिपन्नमूल-
च्छायं गतश्रमरुजं न तरुः करोति ॥ ३५॥
ज्ञानप्रकाशसुलभं शिव दर्शनं ते
जात्यन्धतैव च परं मम तद्वियोगात् ।
तत्तां त्वमेव किल कामपि देहि युक्तिं
व्यक्तिं ययैष्यसि मम श्रममन्तरेण ॥ ३६॥
प्राप्येदृशीमपि मनुष्यदशां न पुण्ये
ज्ञानेऽथवा विधिहतोऽप्यगमं प्रतिष्ठाम् ॥
सामग्र्यसावथ कुतः पुनरप्यतो मां
स्वामिन्नधन्यमनुकम्पितुमर्हसि त्वम् ॥ ३७॥
लीनेन भूरि विषयाध्वनि सौख्यलोभात्
नामापि मोहितधिया कलितं न मृत्योः ।
आसिदतः सपदि तद्भयतो मया किं
शक्यं विधातुमहहा महदाकुलोऽस्मि ॥ ३८॥
या विक्रिया यमभटभ्रुकुटिच्छटानां
पीडाश्च या नवनवा नरकावनीषु ।
ता निर्विशन् भव कथं भवितास्म्यमुत्र
कुत्र व्रजामि शरणं कतरं प्रपद्ये ॥ ३९॥
स्मृत्वाऽप्यहो रविज किङ्कृतहुङ्कृतीनां
मुह्यामि यामि विलयं भयविह्वलात्मा ।
आसन्नमेवमहहा विषमं पुरस्तात्
तत्का गतिर्मम कुकर्मनिमग्नवृत्तेः ॥ ४०॥
आसन्नपापशतसम्भृतघोरपीडः
क्रन्दाम्यनन्यगतिकत्ववशात्पुरस्ते ।
तस्मात्कथं न दयसे त्वरितं कुतश्चित्
आगत्य विश्वमय सान्त्वय मां वराकम् ॥ ४१॥
पश्यन् समानवयसोऽपि यवीयसोऽपि
नक्तन्दिवं यमभटैरपि नीयमानान् ।
आत्मन्यभूवमजरामरताभिमानी
यद्विप्लवादकरवं न शुभं कदाचित् ॥ ४२॥
द्वारे लुठामि करुणं प्रलपामि शम्भो
वाञ्छामि चुम्बितुमथो परिरभ्य च त्वाम् ।
वातूलतामुपगतोऽस्मि तवानुरागात्
हा दुःसहस्त्वयि ममैष दृढोऽनुरागः ॥ ४३॥
कण्ठेऽर्पयत्युरगपाशमसूयया मे
यामिन्यधीशशिख यत्समये कृतान्तः ।
नूनं तदा मुहुरुपैमि फणीन्द्रहार
त्वत्तुल्यतामिति भजे मरणेऽपि हर्षम् ॥ ४४॥
चित्तं न पारदमिव क्षणमुज्झतीदं
चाञ्चल्यविप्लवमयुक्तिविदः प्रभो मे ।
तस्मात्कथं भवति भक्तिरसस्य सिद्धिः
कस्तां विना च भवघोरविपद्विनाशः ॥ ४५॥
स्वामिन्ननुद्गतविवेकलवोऽकृतात्मा
तिर्यग्वदेव दिवसानतिवाहयामि ।
नेता क्षणाच्च वशमन्तकसौनिको मां
आशैव तन्मम कुतः सुगतिप्रसक्त्यै ॥ ४६॥
दुःस्वप्न एष विषमो भवदुःखनामा
स्वामिन् कथं त्यजति मां विगतप्रबोधम् ।
यस्मान्ममानवरतश्रुतभूरिशास्त्र-
तूर्यस्वनैरपि न शाम्यति मोहनिद्रा ॥ ४७॥
कृत्वा पापमसावपोष्यत निजः कायो न दीनो जनः
वैवश्याल्लुठितं चिरं चरणयोः स्त्रीणां गुरूणां न तु ।
लोभोऽकारि मया धने न सुकृते तेनानुतप्ये महत्
किं शक्यं मम तत्र कर्तुमधुना नाथ त्वमेका गतिः ॥ ४८॥
अहं पापी पापक्षपणनिपुणः शङ्कर भवान्
अहं भीतो भीताभयवितरणे ते व्यसनिता ।
अहं दीनो दीनोद्धरणविधिसज्जस्त्वमितरत्
न जानेऽहं वक्तुं कुरु सकलशोच्ये मयि दयाम् ॥ ४९॥
इति परिहृतवान् स्वकाव्यशिल्प-
प्रकटनमाकुलितो भवव्यथाभिः ।
व्यधित गिरिश रम्यदेवजन्मा
तव पुरतो हठदैन्यतः प्रलापान् ॥ ५०॥
एतत्तीव्रं व्रतमुपचितं सैकते सिद्धसिन्धोः
वाराणस्यां शमदमदृशोरेष गाढोऽनुबन्धः ।
दीनाक्रन्दं प्रति पशुपतेरुद्यमश्चाटुकानि
त्यक्त्वा राज्ञां बत मम शुभैस्तन्यते धन्यतेयम् ॥ ५१॥
अभ्रंशे जन्म वंशे सुमहति विहितो वाङ्मयाब्धौ हनूमत्-
संरम्भो दानभोगौ तदनु च रचितौ किञ्चिदौचित्यरीत्या ।
ज्ञात्वा तत्त्वं यतित्वं श्रितमथ मथिता संसृतिर्दुर्निवारा
वाराणस्यां प्रसन्ना स्थितिरिति कृतिनः किं न मे नाम सिद्धम् ॥ ५२॥
ईर्ष्यायै परवादिनां कविकलाकान्ता यतिं मामियं
यच्चुम्बत्यधुनापि तन्मयि भवत्यब्रह्मचर्यं न किम् ।
एतावत्स्खलितं क्षमस्व भगवन् भूयोऽपि तुभ्यं शपे
श्रीविश्वेश्वर देव नैव भवितास्म्यस्या रहस्यातिथिः ॥ ५३॥
नासत्यव्यतिरेकतोऽक्षरमपि प्रायुङ्क्त यद्भारती
नैवान्यत्परबाधतो यदसकृत्सञ्चिन्तितं चेतसा ।
नाकृत्यादितरत्र गात्रमतनोच्चेष्टां यथेष्टं च यत्
सर्वत्रापि मया त्वमेव शरणं तत्राश्रितो धूर्जटे ॥ ५४॥
इति श्रीलोष्टदेवकृतं श्रीदीनाक्रन्दनं नाम
काशीविश्वेश्वरस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीकाशीविश्वेस्वरस्तोत्रं अथवा श्रीदीनाक्रन्दनम्
READ
श्रीकाशीविश्वेस्वरस्तोत्रं अथवा श्रीदीनाक्रन्दनम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
