काश्यष्टकम् PDF संस्कृत
Download PDF of Kashyashtakam2 Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
काश्यष्टकम् संस्कृत Lyrics
|| काश्यष्टकम् ||
श्रीगणेशाय नमः ।
पापौघविध्वंसकरीं प्रसिद्धां श्रीजाह्नवीभूषितदिव्यरूपाम् ।
निर्वाणदात्रीं निखिलैकपूज्यां शिवप्रियां चैव नमामि काशीम् ॥ १॥
देवासुरैर्वन्दितपादपद्मां गायन्ति मुनयः सुयशश्च दिव्याम् ।
प्रसिद्धवेदेषु प्रभावमस्याः शिवप्रियां चैव नमामि काशीम् ॥ २॥
मुमुर्षूणां चैव शिवप्रदायिनीं वैकुण्ठश्रेणिं गुणमन्दिरां च ।
शिवालयां शोकविनाशिनीं च शिवप्रियां चैव नमामि काशीम् ॥ ३॥
विनाशशून्यां शिवरूपिणीं च मोहान्धकारस्य विनाशिनीं च ।
ब्रह्मात्मिकां कामप्रदायिनीं च शिवप्रियां वै प्रणमामि काशीम् ॥ ४॥
विशुद्धविज्ञानघनां चिदात्मिकां मोहाटवीं चैव दवाग्निभूताम् ।
शुद्धां सुशान्तां शिवभक्तिदायिनीं शिवप्रियां वै प्रणमामि काशीम् ॥ ५॥
भूतौघसन्तापविनाशिनीं च लोकेश्वरैर्वन्दितदिव्यरूपाम् ।
महावतां गर्भनिवासकृन्तनीं शिवप्रियां वै प्रणमामि काशीम् ॥ ६॥
विज्ञानदात्रीं प्रणवस्वरूपां चिन्तामणिं भक्तिप्रदां च नित्याम् ।
गोलोकदात्रीं भवभक्तिदात्रीं शिवप्रियां वै प्रणमामि काशीम् ॥ ७॥
बुद्धेः परां शङ्करप्राणवल्लभां मोहार्णवं कुम्भसमुद्भवां च ।
पापेभव्याघ्रीं हरलोकदात्रीं शिवप्रियां वै प्रणमामि काशीम् ॥ ८॥
प्रातः प्रातः समुत्थाय यः पठेत्प्रयतः पुमान् ।
अन्यदेशेऽपि भक्त्या स काशीवासफलं लभेत् ॥ ९॥
इति श्रीगोपालव्यासविरचितं काश्यष्टकं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowकाश्यष्टकम्
READ
काश्यष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
