कात्यायनी अष्टकम PDF हिन्दी
Download PDF of Katyayani Ashtakam Hindi
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ हिन्दी
कात्यायनी अष्टकम हिन्दी Lyrics
|| कात्यायनी अष्टकम (Katyayani Ashtakam PDF) ||
श्री गणेशाय नमः ।
अवर्षिसंज्ञं पुरमस्ति लोके कात्यायनी तत्र विराजते या ।
प्रसाददा या प्रतिभा तदीया सा छत्रपुर्यां जयतीह गेया ॥ १॥
त्वमस्य भिन्नैव विभासि तस्यास्तेजस्विनी दीपजदीपकल्पा ।
कात्यायनी स्वाश्रितदुःखहर्त्री पवित्रगात्री मतिमानदात्री ॥ २॥
ब्रह्मोरुवेतालकसिंहदाढोसुभैरवैरग्निगणाभिधेन ।
संसेव्यमाना गणपत्यभिख्या युजा च देवि स्वगणैरिहासि ॥ ३॥
गोत्रेषु जातैर्जमदग्निभारद्वाजाऽत्रिसत्काश्यपकौशिकानाम् ।
कौण्डिन्यवत्सान्वयजैश्च विप्रैर्निजैर्निषेव्ये वरदे नमस्ते ॥ ४॥
भजामि गोक्षीरकृताभिषेके रक्ताम्बरे रक्तसुचन्दनाक्ते ।
त्वां बिल्वपत्रीशुभदामशोभे भक्ष्यप्रिये हृत्प्रियदीपमाले ॥ ५॥
खड्गं च शङ्खं महिषासुरीयं पुच्छं त्रिशूलं महिषासुरास्ये ।
प्रवेशितं देवि करैर्दधाने रक्षानिशं मां महिषासुरघ्ने ॥ ६॥
स्वाग्रस्थबाणेश्वरनामलिङ्गं सुरत्नकं रुक्ममयं किरीट्म ।
शीर्षे दधाने जय हे शरण्ये विद्युत्प्रभे मां जयिनं कुरूष्व ॥ ७॥
नेत्रावतीदक्षिणपार्श्वसंस्थे विद्याधरैर्नागगणैश्च सेव्ये ।
दयाघने प्रापय शं सदास्मान्मातर्यशोदे शुभदे शुभाक्षि ॥ ८॥
इदं कात्यायनीदेव्याः प्रसादाष्टकमिष्टदम् ।
कुमठाचार्यजं भक्त्या पठेद्यः स सुखी भवेत् ॥ ९॥
॥ इति श्रीकात्यायन्यष्टकं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowकात्यायनी अष्टकम
READ
कात्यायनी अष्टकम
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
