श्रीविश्वमङ्गलं श्रीवामदेवकवचम्
|| श्रीविश्वमङ्गलं श्रीवामदेवकवचम् || ॐ श्रीगणेशाय नमः । ॐ श्रीदेव्यै सदासुफलदायिन्यै नमः । श्रीभैरव उवाच अथ वक्ष्यामि देवेशि कवचं मन्त्रगर्भकम् । मूलमन्त्रस्वरूपं च विश्वमङ्गलकाभिधम् ॥ १॥ सर्वसम्पत्प्रदं चैव वामदेवस्य पार्वति । गुह्यातिगुह्यं परमं मूलविद्यामयं ध्रुवम् ॥ २॥ परमार्थप्रदं नित्यं भोगमोक्षैककारणम् । महाभयहरं देवि महैश्वर्यप्रदं शिवे ॥ ३॥ कवचस्यास्य देवेशि ऋषिर्भैरव ईरितः । अनुष्टुप्छन्द इत्युक्तं वामदेवश्च…