श्रीकेदारकवचम् PDF संस्कृत
Download PDF of Kedarakavacham Sanskrit
Shiva ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्रीकेदारकवचम् संस्कृत Lyrics
|| श्रीकेदारकवचम् ||
श्रीगणेशाय नमः ।
श्रीरवलनाथाय नमः ।
अस्य श्रीरवलनाथकवचस्तोत्रमन्त्रस्य,
ब्रह्मणे ऋषये नमः । शिरसि ।
अनुष्टुप् छन्दसे नमः । मुखे ।
श्रीरवलनाथाय नमः । हृदये ।
रं बीजाय नमः । गुह्ये ।
वं शक्तये नमः । पादयोः ।
लं कीलकाय नमः । सर्वाङ्गे ।
श्रीरवलनाथप्रीत्यर्थे जपे विनियोगः ॥
अथ ध्यानम् ।
केयूरादिविभूषितैः करतलैरत्नाङ्कितैः सुन्दरं
नानाहारविचित्रपन्नगयुतैर्हेमाम्बरैर्मण्डितम् ।
हस्ताभ्यां धृतखड्गपात्रडमरूशूलं सदा बिभ्रतं
वाजीवाहनदैत्यदर्पदलनं केदारमीशं भजे ॥
अथ कवचम् ।
ॐ केदारः पूर्वतः पातु चाग्नेय्यां रवलेश्वरः ।
दक्षिणे वारिजाक्षस्तु नैरृत्यां रक्षसूदनः ॥ १॥
पश्चिमे पन्नगेशश्च वायव्यां दैत्यनाशकः ।
उत्तरे उत्तरेशश्च ईशान्यां ईश एव च ॥ २॥
ऊर्ध्वं गङ्गाधरः पातु धरायाञ्च त्रिविक्रमः ।
एवं दशदिशोन्यस्य पश्चादङ्गेषु विन्यसेत् ॥ ३॥
शिखायां रेणुकानाथो मस्तके भाललोचनः ।
भालं मे रक्ष भगवन् भ्रूमध्ये मेदिनीपतिः ॥ ४॥
नेत्रयोर्ज्योतिनाथश्च कर्णयोः कीर्तिवर्धनः ।
कुण्डलीनाः कपोलौच नासिकां विघ्ननाशनः ॥ ५॥
ओष्ठद्वयो उमानाथो दन्तयोर्धरणीधरः ।
जिह्वायां वेदजिह्वश्च हनुश्चहनुमत्प्रियः ॥ ६॥
ग्रीवायां नीलकण्ठश्च स्कन्धौस्कन्द प्रियङ्करः ।
बाहोः शस्त्रभृतां श्रेष्ठो हस्तेडमरूधारकः ॥ ७॥
हृदयं विश्वनाथश्च उदरं मे जनप्रियः ।
नाभिं पातु गुहावासो कटिमध्ये कपालभृत् ॥ ८॥
गुह्येगुह्य निवासश्च उरूभ्यां उक्षवाहनः ।
जान्वोर्जह्नु सुताधारी जङ्घयोर्जङ्गनोद्बलीन् ॥ ९॥
गुल्फयोः गूढकर्तात्मा पादयोः पदवन्दितः ।
नखेषु रोमकूपेषु व्यापकः सर्वसन्धिषु ॥ १०॥
अग्रतः पातु मे खड्गी पृष्ठतः पातु शूलवान् ।
पातुमां पात्रधारीच वातपित्तकफादिषु ॥ ११॥
जले जलधरः पातु स्थले स्थाणुः सनातनः ।
महार्णवे महादुर्गे अग्नि चोरभयेषु च ॥ १२॥
शस्त्रक्षतेषु यो रक्षेद् रत्नासुरनिबर्हणः ।
सुप्ति प्रमाद विपदै रक्षमां गिरिवासकः ॥ १३॥ (विषदै रक्षेन्मां)
य इदं कवचं दिव्यं केदारस्य महात्मनः ।
पठन्ति शृण्वते वाणी सर्वपापैः प्रमुच्यते ॥ १४॥
इति श्रीपद्मपुराणे करवीरखण्डे केदारकवचं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीकेदारकवचम्
READ
श्रीकेदारकवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
