श्रीकेशवादि चतुर्विंशतिनामस्तोत्रम् PDF संस्कृत
Download PDF of Keshavadichaturvimshatinamastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीकेशवादि चतुर्विंशतिनामस्तोत्रम् संस्कृत Lyrics
|| श्रीकेशवादि चतुर्विंशतिनामस्तोत्रम् ||
केशवस्तु सुवर्णाभः संयुतश्च श्रिया सदा ।
शङ्खचक्रगदापद्मधरो ध्येयोऽखिलैर्जनैः ॥ १॥
नारायणः श्यामवर्णः सदा लक्ष्म्या युतः प्रभुः ।
पद्मगदाशङ्खचक्रधरो ध्येयोऽखिलैर्जनैः ॥ २॥
माधवो ह्युत्पलाभश्च सदा कमलया युतः ।
शङ्खचक्रपद्मगदाधरो ध्येयोऽखिलैः प्रभुः ॥ ३॥
गोविन्दः शशिवर्णश्च पद्मया च युतः प्रभुः ।
गदापद्मशङ्खचक्रधरो ध्येयोऽखिलैर्जनैः ॥ ४॥
स विष्णुर्गौरवर्णाभो ह्यब्धिकन्या युतः प्रभुः ।
पद्मशङ्खचक्रगदाधरो ध्येयः सदा विभुः ॥ ५॥
मधुसूदनःशोणवर्णः प्रिया तु कमलालया ।
शङ्खपद्मगदाचक्रयुक्तो ध्येयोऽखिलैर्जनैः ॥ ६॥
त्रिविक्रमोऽनिसङ्काशो रमया च युतः सदा ।
गदाचक्रशङ्खपद्मधरो ध्येयोऽखिलैर्जनैः ॥ ७॥
वामनः स्फटिकाभश्च वृषया प्रियया युतः ।
चक्रगदापद्मशङ्खधरो ध्येयोऽखिलैर्जनः ॥ ८॥
श्रीधरस्तु हरिद्राभो धन्याख्यप्रियया युतः ।
चक्रगदाशङ्खपद्मधरो ध्येयोऽखिलैर्जनैः ॥ ९॥
हृषीकेशः सूर्यवर्णो बुद्धयाख्यप्रियया युतः ।
चक्रपद्मशङ्खगदाधरो ध्येयोऽखिलैः प्रभुः ॥ १०॥
पद्मनाभो घनश्यामः प्रियया यज्ञया युतः ।
पद्मचक्रगदाशङ्खधरो ध्येयोऽखिलैः सदा ॥ ११॥
दामोदरो हेमवर्ण इन्दिराप्रियया युतः ।
शङ्खगदाचक्रपद्मधरो ध्येयोऽखिलैः प्रभुः ॥ १२॥
सङ्कर्षणः सुमुक्ताभो हिरण्यासहितः प्रभुः ।
शङ्खपद्मचक्रगदाधरो ध्येयः सदा जनैः ॥ १३॥
वासुदेवो नीरदाभो हरिण्याख्यप्रियायुतः ।
शङ्खपद्मचक्रगदाधरो ध्येयोऽखिलैः प्रभुः ॥ १४॥
प्रद्युम्नो रक्तवर्णश्च सत्यया संयुतः प्रभुः ।
शङ्खगदापद्मचक्रधरो ध्येयोऽखिलैः प्रभुः ॥ १५॥
अनिरुद्धोऽग्निवर्णश्च नीलया सहितः प्रभुः ।
गदाशङ्खपद्मचक्रधरो ध्येयोऽखिलैः सदा ॥ १६॥
पुरुषोत्तमस्तु रक्ताभो नित्ययानन्दया युतः ।
पद्मशङ्खगदाचक्रधरो ध्येयोऽखिलैः प्रभुः ॥ १७॥
अधोक्षजः श्यामवर्णस्त्रय्याख्यप्रियया युतः ।
गदाशङ्खचक्रपद्मधरो ध्येयोऽखिलैः प्रभुः ॥ १८॥
नृसिंहो मणिवर्णाभः सुखया सहितः प्रभुः ।
गदापद्मशङ्खचक्रधरो ध्येयोऽखिलैर्जनैः ॥ १९॥
अच्युतः सूर्यवर्णश्च सुगन्ध्याख्यप्रिया युतः ।
पद्मचक्रशङ्खगदाधरो ध्येयोऽखिलैः प्रभुः ॥ २०॥
जनार्दनः कुन्दवर्णः सुन्दर्या सहितः प्रभुः ।
चक्रशङ्खगदापद्मधरो ध्येयोऽखिलैः प्रभुः सदा ॥ २१॥
उपेन्द्रः शशिवर्णश्च विद्याख्यप्रियया युतः ।
गदाचक्रपद्मशङ्खधरो ध्येयोऽखिलैः प्रभुः ॥ २२॥
हरिर्वैढूर्यसङ्काशः सहितश्च सुशीलया ।
चक्रपद्मगदाशङ्खधरो ध्येयोऽखिलैः सदा ॥ २३॥
कृष्णो भिन्नाञ्जनप्रख्यो लक्षणाख्यप्रियायुतः ।
गदापद्मचक्रशङ्खधरो ध्येयोऽखिलैर्जनैः ॥ २४॥
इति श्रीकेशवादि चतुर्विशतिनामस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीकेशवादि चतुर्विंशतिनामस्तोत्रम्
READ
श्रीकेशवादि चतुर्विंशतिनामस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
