श्रीखोजीदेवाचार्याष्टकम् PDF संस्कृत
Download PDF of Khojidevacharyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीखोजीदेवाचार्याष्टकम् संस्कृत Lyrics
|| श्रीखोजीदेवाचार्याष्टकम् ||
आनन्दभाष्यसिद्धान्तप्रबोद्धारं तपोनिधिम् ।
वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥
रामानन्दमताभिज्ञं रामानन्दानुयायिनम् ।
वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥
मायावादं पराजित्य विशिष्टाद्वैतपोषकम् ।
वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ३॥
ऊर्ध्वपुण्ड्रादिसंस्कारैर्वैष्णवत्वविधायकम् ।
वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
रहस्यानां प्रवक्तारं रहस्यानां प्रदायिनम् ।
वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
मुक्तिधामप्रदातारं भक्त्या श्रीरामसीतयोः ।
वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
रामसेवारतं नित्यं रामकीर्त्तनतत्परम् ।
वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
राघवोपासकं सिद्धं राघवदासनामकम् ।
वन्दे श्रीखोजिदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीखोजीदेवाचार्याष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीखोजीदेवाचार्याष्टकम्
READ
श्रीखोजीदेवाचार्याष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
