श्रीकीलदेवाचार्याष्टकम् PDF संस्कृत
Download PDF of Kiladevacharyashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीकीलदेवाचार्याष्टकम् संस्कृत Lyrics
|| श्रीकीलदेवाचार्याष्टकम् ||
श्रीपयोहारिणः शिष्यं रामानन्दानुयायिनम् ।
वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ १॥
रामानन्दकृतानन्दभाष्याध्यापनतत्परम् ।
वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ २॥
कर्मज्ञानाङ्गिभक्तेर्हि प्रदानान्मुक्तिदायिनम् ।
वन्देऽहं कीलदेवार्यं द्वाराचार्य जगद्गुरुम् ॥ ३॥
तारणाय भवाम्भोधे रामतारकमन्त्रदम् ।
वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ४॥
वादिवारणशार्दूलं सिद्धेन्द्रं सिद्धिबुद्धिदम् ।
वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ५॥
सीतारामपदासक्तं सीतारामप्रपत्तिदम् ।
वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ६॥
तारकादित्रयाणां च व्याख्यातारं बुधोत्तमम् ।
वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ७॥
मालामुद्रोर्ध्वपुण्ड्रादेर्धारिणं तत्त्ववेदिनम् ।
वन्देऽहं कीलदेवार्यं द्वाराचार्यं जगद्गुरुम् ॥ ८॥
भवोघ्निहननेदक्षं कीलदेवाययोगिने पयोहारि सुशिष्याय द्वाराचार्यं नमाम्यहम् ॥
इति श्रीकीलदेवाचार्याष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीकीलदेवाचार्याष्टकम्
READ
श्रीकीलदेवाचार्याष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
