क्रमस्तोत्रम् PDF संस्कृत
Download PDF of Kramastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
क्रमस्तोत्रम् संस्कृत Lyrics
|| क्रमस्तोत्रम् ||
अयं दुःखव्रातव्रतपरिगमे पारणविधि
र्महासौख्यासारप्रसरणरसे दुर्दिनमिदम् ।
यदन्यन्यक्कृत्या विषमविशिखप्लोषणगुरो-
र्विभोः स्तोत्रे शाश्वत्प्रतिफलति चेतो गतभयम् ॥ १॥
विमृश्य स्वात्मानं विमृशति पुनः स्तुत्यचरितं
तथा स्तोता स्तोत्रे प्रकटयति भेदैकविषये ।
विमृष्टश्च स्वात्मा निखिलविषयज्ञानसमये
तदित्थं त्वत्स्तोत्रेऽहमिह सततं यत्नरहितः ॥ २॥
अनामृष्टः स्वात्मा न हि भवति भावप्रमितिभाक्
अनामृष्टः स्वात्मेत्यपि हि न विनाऽऽमर्शनविधेः ।
शिवश्चासौ स्वात्मा स्फुरदखिलभावैकसरस
स्ततोऽहं त्वत्स्तोत्रे प्रवणहृदयो नित्यसुखितः ॥ ३॥
विचित्रैर्जात्यादिभ्रमणपरिपाटीपरिकरै
रवाप्तं सार्वज्ञं हृदय यदयत्नेन भवता ।
तदन्तस्त्वद्वोधप्रसरसरणीभूतमहसि
स्फुटं वाचि प्राप्य प्रकटय विभोः स्तोत्रमधुना ॥ ४॥
विधुन्वानो बन्धाभिमतभवमार्गस्थितिमिमां
रसीकृत्यानन्तस्तुतिहुतवहप्लोषितभिदाम् ।
विचित्रस्वस्फारस्फुरितमहिमारम्भरभसात्
पिबन् भावानेतान् वरद मदमत्तोऽस्मि सुखितः ॥ ५॥
भवप्राज्यैश्वर्यप्रथितबहुशक्तेर्भगवतो
विचित्रं चारित्रं हृदयमधिशेते यदि ततः ।
कथं स्तोत्रं कुर्यादथ च कुरुते तेन सहसा
शिवैकात्म्यप्राप्तौ शिवनतिरुपायः प्रथमकः ॥ ६॥
ज्वलद्रूपं भास्वत्पचनमथ दाहं प्रकटनं
विमुच्यान्यद्वह्नेः किमपि घटते नैव हि वपुः ।
स्तुवे संविद्रश्मीन् यदि निजनिजांस्तेन स नुतो
भवेन्नान्यः कश्चिद् भवति परमेशस्य विभवः ॥ ७॥
विचित्रारम्भत्वे गलितनियमे यः किल रसः
परिच्छेदाभावात् परमपरिपूर्णत्वमसमम् ।
स्वयं भासां योगः सकलभवभावैकमयता
विरुद्धैर्धर्मौघैः परचितिरनर्घोचितगुणा ॥ ८॥
इतीदृक्षै रूपैर्वरद विविधं ते किल वपु
र्विभाति स्वांशेऽस्मिन् जगति गतभेदं भगवतः ।
तदेवैतत्स्तोतुं हृदयमथ गीर्बाह्यकरण-
प्रबन्धाश्च स्युर्मे सततमपरित्यक्तरभसः ॥ ९॥
तवैवैकस्यान्तः स्फुरितमहसो बोधजलधे- (तवैकैकस्यान्तः)
र्विचित्रोर्मिव्रातप्रसरणरसो यः स्वरसतः ।
त एवामी सृष्टिस्थितिलयमयस्फूर्जितरुचां
शशाङ्कार्काग्नीनां युगपदुदयापायविभवाः ॥ १०॥
अतश्चित्राचित्रक्रमतदितरादिस्थितिजुषो
विभोः शक्तिः शश्वद् व्रजति न विभेदं कथमपि ।
तदेतस्यां भूमावकुलमिति ते यत्किल पदं
तदेकाग्रीभूयान्मम हृदयभूर्भैरव विभो ॥ ११॥
अमुष्मात् सम्पूर्णात् वत रसमहोल्लाससरसा
न्निजां शक्तिं भेदं गमयसि निजेच्छाप्रसरतः ।
अनर्घं स्वातन्त्र्यं तव तदिदमत्यद्भुतमयीं
भवच्छक्तिं स्तुन्वन् विगलितभयोऽहं शिवमयः ॥ १२॥
इदन्तावद्रूपं तव भगवतः शक्तिसरसं
क्रमाभावादेव प्रसभविगलत्कालकलनम् ।
मनःशक्त्या वाचाप्यथ करणचक्रैर्बहिरथो
घटाद्यैस्तद्रूपं युगपदधितिष्ठेयमनिशम् ॥ १३॥
क्रमोल्लासं तस्यां भुवि विरचयन् भेदकलनां
स्वशक्तीनां देव प्रथयसि सदा स्वात्मनि ततः । (देवः)
क्रियाज्ञानेच्छाख्यां स्थितिलयमहासृष्टिविभवां
त्रिरूपां भूयासं समधिशयितुं व्यग्रहृदयः ॥ १४॥ (त्रिरूपा)
परा सृष्टिर्लीना हुतवहमयी यात्र विलसत्(विलसेत्)
परोल्लासौन्मुख्यं व्रजति शशिसंस्पर्शसुभगा ।
हुताशेन्दुस्फारोभयविभवभाग् भैरवविभो
तवेयं सृष्ट्याख्या मम मनसि नित्यं विलसतात् ॥ १५॥
विसृष्टे भावांशे बहिरतिशयास्वादविरसे
यदा तत्रैव त्वं भजसि रभसाद् रक्तिमयताम् ।
तदा रक्ता देवी तव सकलभावेषु ननु मां
क्रियाद्रक्तापानक्रमघटितगोष्ठीगतघृणम् ॥ १६॥
बहिर्वृत्तिं हातुं चितिभुवमुदारां निवसितुं
यदा भावाभेदं प्रथयसि विनष्टोर्मिचपलः ।
स्थितेर्नाशं देवी कलयति तदा सा तव विभो
स्थितेः सांसारिक्याः कलयतु विनाशं मम सदा ॥ १७॥
जगत्संहारेण प्रशमयितुकामः स्वरभसात्
स्वशङ्कातङ्काख्यं विधिमथ निषेधं प्रथयसि ।
इमं सृष्ट्वेत्थं त्वं पुनरपि च शङ्कां विदलयन् (यमं सृष्ट्वेत्थं)
महादेवी सेयं मम भवभयं सन्दलयताम् ॥ १८॥
विलीने शङ्कौघे सपदि परिपूर्णे च विभवे
गते लोकाचारे गलितविभवे शास्त्रनियमे ।
अनन्तं भोग्यौघं ग्रसितुमभितो लम्पटरसा
विभो संसाराख्या मम हृदि भिदांशं प्रहरतु ॥ १९॥
तदित्थं देवीभिः सपदि दलिते भेदविभवे
विकल्पप्राणासौ प्रविलसति मातृस्थितिरलम् ।
अतः संसारांशं निजहृदि विमृश्य स्थितिमयी
प्रसन्ना स्यान्मृत्युप्रलयकरणी मे भगवती ॥ २०॥
तदित्थं ते तिस्रो निजविभवविस्फारणवशा
दवाप्ताः षट्चक्रं क्रमकृतपदं शक्तय इमाः ।
क्रमादुन्मेषेण प्रविदधति चित्रां भुवि दशा
मिमाभ्यो देवीभ्यः प्रवणहृदयः स्यां गतभयः ॥ २१॥
इमां रुन्धे भूमिं भवभयभिदातङ्ककरणीं
इमां बोधैकान्तद्रुतिरसमयीं चापि विदधे ।
तदित्थं सम्बोधद्रुतिमथ विलुप्याशुभतती
र्यथेष्टं चाचारं भजति लसतात् सा मम हृदि ॥ २२॥
क्रियाबुद्ध्यक्षादेः परिमितपदे मानपदवी
मवाप्तस्य स्फारं निजनिजरुचा संहरति या ।
इयं मार्तण्डस्य स्थितिपदयुजः सारमखिलं
हठादाकर्षन्ती कृषतु मम भेदं भवभयात् ॥ २३॥
समग्रामक्षालीं क्रमविरहितामात्मनि मुहु
र्निवेश्यानन्तान्तर्बहलितमहारश्मिनिवहा ।
परा दिव्यानन्दं कलयितुमुदारादरवती
प्रसन्ना मे भूयात् हृदयपदवीं भूषयतु च ॥ २४॥
प्रमाणे संलीने शिवपदलसद्वैभववशा
च्छरीरं प्राणादिर्मितकृतकमातृस्थितिमयः ।
यदा कालोपाधिः प्रलयपदमासादयति ते
तदा देवी यासौ लसति मम सा स्ताच्छिवमयी ॥ २५॥
प्रकाशाख्या संवित् क्रमविरहिता शून्यपदतो
बहिर्लीनात्यन्तं प्रसरति समाच्छादकतया ।
ततोऽप्यन्तःसारे गलितरभसादक्रमतया
महाकाली सेयं मम कलयतां कालमखिलम् ॥ २६॥
ततो देव्यां यस्यां परमपरिपूर्णस्थितिजुषि
क्रमं विच्छिद्याशु स्थितिमतिरसात्संविदधति ।
प्रमाणं मातारं मितिमथ समग्रं जगदिदं (मितमथ)
स्थितां क्रोडीकृत्य श्रयति मम चित्तं चितिमिमाम् ॥ २७॥
अनर्गलस्वात्ममये महेशे तिष्ठन्ति यस्मिन् विभुशक्तयस्ताः ।
तं शक्तिमन्तं प्रणमामि देवं मन्थानसंज्ञं जगदेकसारम् ॥ २८॥
इत्थं स्वशक्तिकिरणौघनुतिप्रबन्धान् (बन्धात्)
आकर्ण्य देव यदि मे व्रजसि प्रसादम् ।
तेनाशु सर्वजनतां निजशासनांशु
संशान्तिताखिलतमःपटलां विधेयाः ॥ २९॥
षट्षष्ठिनामके वर्षे नवम्यामसितेऽहनि ।
मयाऽभिनवगुप्तेन मार्गशीर्षे स्तुतः शिवः ॥ ३०॥
॥ इति श्रीअभिनवगुप्तपादाचार्यकृतं क्रमस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowक्रमस्तोत्रम्
READ
क्रमस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
