अक्रूरकृता श्रीकृष्णस्तुतिः PDF संस्कृत
Download PDF of Krrishnastutihakrura Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
अक्रूरकृता श्रीकृष्णस्तुतिः संस्कृत Lyrics
|| अक्रूरकृता श्रीकृष्णस्तुतिः ||
दृष्ट्वा तस्मिन् जले देवं विस्मयं परमं ययौ ।
तुष्टावाथ यदुश्रेष्ठो हरिं सर्वगमीश्वरम् ॥ ३०४॥
अक्रूर उवाच
कालात्मने नमस्तुभ्यमनादिनिधनाय च ।
अव्यक्ताय नमस्तुभ्यमविकाराय ते नमः ॥ ३०५॥
भूतभर्त्रे नमस्तुभ्यं भूतव्याघ्र नमो नमः ।
नमस्ते सर्वभूतानां नियन्त्रे परमात्मने ॥ ३०६॥
विकारायाविकाराय प्रत्यक्षपुरुषाय च ।
गुणभर्त्रे नमस्तुभ्यं नियमाय नमो नमः ॥ ३०७॥
देशकालादिनिर्भेदरहिताय परात्मने ।
अनन्ताय नमस्तुभ्यमच्युताय नमो नमः ॥ ३०८॥
गोविन्दाय नमस्तुभ्यं त्रयीनाथाय शार्ङ्गिणे ।
नारायणाय विश्वाय वासुदेवाय ते नमः ॥ ३०९॥
विष्णवे पुरुरूपाय शाश्वताय नमो नमः ।
पद्मनेत्राय नित्याय शङ्खचक्रधराय च ॥ ३१०॥
उद्यत्कोटिरविप्रख्य भूषणाञ्चितवर्चसे ।
हरये सर्वलोकानामीश्वराय नमो नमः ॥ ३११॥
सवित्रे सर्वजगतां बीजाय परमात्मने ।
सङ्कर्षणाय कृष्णाय प्रद्युम्नाय नमो नमः ॥ ३१२॥
अनिरुद्धाय धात्रे च विधात्रे विश्वयोनये ।
सहस्रमूर्त्तये तुभ्यं बहुमूर्द्धाङ्घ्रिबाहवे ॥ ३१३॥
सहस्रनाम्ने नित्याय पुरुषाय नमो नमः ।
नमस्ते नागपर्यङ्कशायिने सौम्यरूपिणे ॥ ३१४॥
केशवाय नमस्तुभ्यं पीतवस्त्रधराय च ।
लक्ष्मीघनकुचाश्लेषविमर्दोज्ज्वलवर्चसे ।
श्रीधराय नमस्तुभ्यं श्रीशायानन्तरूपिणे ॥ ३१५॥
ईश्वर उवाच
स्नानकाले पठेद्यस्तु देवं ध्यायन्सनातनम् ।
इमं स्तवं नरो भक्त्या महद्भिर्मुच्यते ह्यघैः ॥ ३१६॥
सर्वतीर्थफलं प्राप्य विष्णुसायुज्यमाप्नुयात् ।
एवमन्तर्जले देवं स्तुत्वा भागवतोत्तमः ॥ ३१७॥
अर्चयामास स जलैः कुसुमैश्च सुगन्धिभिः ।
कृतकृत्यस्तदाक्रूरो निर्गत्य यमुनाजलात् ॥ ३१८॥
इति श्रीपद्मपुराणे उत्तरखण्डे पञ्चचत्वारिंशाधिकद्विशत-
तमाध्यायान्तर्गतं अक्रूरकृता श्रीकृष्णस्तुतिः समाप्ता ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअक्रूरकृता श्रीकृष्णस्तुतिः
READ
अक्रूरकृता श्रीकृष्णस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
