लघुसप्तशतीस्तोत्रम् PDF हिन्दी
Download PDF of Laghusaptashati Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
लघुसप्तशतीस्तोत्रम् हिन्दी Lyrics
|| लघुसप्तशतीस्तोत्रम् ||
श्रीगणेशाय नमः ॥
यत्कर्म धर्मनिलयं प्रवदन्ति तज्ज्ञा
यज्ञादिकं तदखिलं सकलं त्वयैव ।
त्वां चेतनायत इति प्रविचार्यं चित्ते
नित्यं त्वदीयचरणौ शरणं प्रपद्ये ॥
पाथोधिनाथतनयापतिरेव शेष-
पर्यङ्कलालितवपुः पुरुषः पुराणः ।
त्वन्मोहपाशविवशो जगदम्ब सोऽपि
व्याघूर्णमाननयनः शयनं चकार ॥
तत्कौतुकं जननि यस्य जनार्दनस्य
कर्णप्रसूतमलजौ मधुकैटभाख्यौ ।
तस्यापि यौ न भवतः सुलभौ विहन्तुं
त्वन्मायया कवलितौ विलयं गतौ तौ ॥
यन्माहिषं वपुरपूर्वबलोपपन्नं
यन्नाकनायकपराक्रमजित्वरं च ।
यल्लोकशोकजननप्रतिबद्धहार्दं
तल्लीलयैव दलितं गिरिजे भवत्या ॥
यो धूम्रलोचन इति प्रथितः पृथिव्यां
भस्मीबभूव समरे तव हुङ्कृतेन ।
सर्वासुरक्षयकरे गिरिराजकन्ये मन्ये
स्वमन्युदहने कृत एष होमः ॥
केषामपि त्रिदशनायकपूर्वकाणां जेतुं
न जातु सुलभाविति चण्डमुण्डौ ।
तौ दुर्मदौ तु परमाम्बरतुल्यरूपे
मातस्तवासि कुलिशात्पतितौ विशीर्णौ ॥
दौत्येन ते शिव इति प्रथितप्रभावो
देवोऽपि दानवपतेः सदनं जगाम ।
भूयोऽपि तस्य चरितं प्रथयाञ्चकार
सा त्वं प्रतीति शिवदूतिविजृम्भितं तत् ॥
चित्रं तदेतदमरैरपि ये न पेयाः
शस्त्राभिधातपतिताद्रुधिरादपर्णे ।
भूमौ बभूवुरमिताः प्रतिरक्तबीजा-
स्तेऽपि त्वयैव गगने गिलिताः समस्ताः ॥
आश्चर्यमेतदखिलं यदभूः सुरारि-
त्रैलोक्यवैभवविलुण्ठनजुष्टपाणी ।
शस्त्रैर्निहत्य भुवि शुम्भनिशुम्भसंज्ञौ
नीतौ त्वया जननि तावपि नाकलोकम् ॥
त्वत्तेजसि प्रलयकालहुताशनेऽस्मिन्-
नस्तं प्रयान्ति भुवनान्यखिलानि सद्यः ।
तस्मिन्निपत्य शलभा इव दानवेन्द्रा
भस्मीभन्वति हि भवानि किमत्र चित्रम् ॥
किं वर्णयामि भवतीं भवति प्रताप-
संवर्धनप्रणयिनी प्रणमज्जनेथु ।
तत्किं पृणामि भवतीं भवति प्रताप-
संवर्धनि प्रणयिनीं विपदास्थितेषु ॥
वामे करे तदितरे च तथोपरिष्टात्
पात्रं सुधारसयुतं वरमातुलिङ्गम् ।
खेटं गदां च दधतीं भवतीं भवानीं
ध्यायन्ति येऽरुणनिभां कृतिनस्त एव ॥
यद्वारुणात्परमिदं जगदम्ब यस्ते
बीजं स्मरेदनुदिनं मदनादिरूढम् ।
मायाङ्कितं तिलकितं तरुणेन्दुबिन्दु
नादैरतीन्द्रमिह राज्यमसौ भुनक्ति ॥
आवाहनं यजनवर्णनमग्निहोत्रं
कर्मार्पणं तव विसर्जनमत्र देवि ।
मोहान्मया कृतमिदं सकलापराधं
मातः क्षमस्व वरदे बहिरन्तरस्थे ॥
अन्तःस्थिताप्यखिलजन्तुषु तन्तुरूपा
विद्योतसे बहिरिहाखिलवस्तुरूपा ।
का भूरिशब्दरचना वचनातिगासि
दीनं जनं जननि मामिह निष्प्रपञ्चम् ॥
एतत्पठेदनुदिनं दनुजान्तकारि
चण्डीचरित्रमतुलं भुवि यस्त्रिकालम् ।
श्रीमान्सुखी दनुजपूर्णभगः क्षमी स्या-
द्योगी चिरन्तनवपुः कविचक्रवर्ती ॥
इति लघुसप्तशतीस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowलघुसप्तशतीस्तोत्रम्

READ
लघुसप्तशतीस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
