श्रीलक्ष्मीवेङ्कटेश्वरभुजङ्गस्तोत्रम् PDF संस्कृत
Download PDF of Lakshmivemkateshvarabhujangastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीलक्ष्मीवेङ्कटेश्वरभुजङ्गस्तोत्रम् संस्कृत Lyrics
|| श्रीलक्ष्मीवेङ्कटेश्वरभुजङ्गस्तोत्रम् ||
भुजङ्गाचलाग्रस्थहेमालयान्त
स्थलन्नीलरत्नत्रिशाविद्ग्रहेण ।
मुहुर्भासयन्तं सुखान्तं महान्तं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ १॥
स्फुरद्रत्नभास्वत्किरीटाभिरामं
ललाटस्थकर्पूरचूर्णोर्ध्वपुण्ड्रम् ।
मनाङ्मन्दहासाधरोष्ठास्यपद्मं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ २॥
कृपापूर्णसौम्येक्षणाब्जावलोकैः
नतानेकभूतौहरक्षैकदीक्षम् ।
मणिस्थोमकान्तिच्छटाकर्णपूरं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ३॥
कराग्रोल्लसच्छङ्खचक्रायुधाढ्यं
रमावासरम्यायतूरः प्रदेशम् ।
लसत्पीतवासः प्रभारञ्जिताङ्गं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ४॥
अनर्घस्फुरद्रत्नभूषाविशेषैः
अनेकैस्सदालङ्कृतं मङ्गलाङ्गम् ।
सुगन्धिप्रसूनावलि स्रक्सुरम्यं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ५॥
पदाब्जं श्रयध्वं ममेत्यादरेण
ब्रुवाणं स्वभक्तान् करन्यासभङ्ग्या ।
जगज्जन्मरक्षा क्षयादिस्वलीलं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ६॥
भवाब्धिर्भवेद्यानुदद्यं श्रितानां
नितिव्याहरन्तं करेणापरेणा ।
धृतार्चावतारं परम्ब्रह्मनित्यं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ७॥
पदाब्जाश्रितानेकदेवाधिपानां
किरीटस्थरत्नप्रभाभासिताङ्घ्रिम् ।
त्रिलोकैकनाथं त्रयीमौलिवेद्यं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ८॥
धनं भक्तलोकैरनेकैर्गृहीत्वा
तदीयां समस्तां विपत्तिं निवार्य ।
अभीष्टानि दत्वा सर्वानवन्तं
भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ९॥
नमः श्रीनिवासाय सर्वान्तरात्मं
नमस्तेऽस्तु पद्मावतीवल्लभाय ।
नमो वेङ्कटाद्रिस्फुरत्कालमेघ
प्रपन्नार्तबन्धो नमस्तेऽस्तु नित्यम् ॥ १०॥
इति श्रीजग्गुरु सिंगरय्यङ्गरविरचितं
श्रीलक्ष्मीवेङ्कटेश्वरभुजङ्गस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीलक्ष्मीवेङ्कटेश्वरभुजङ्गस्तोत्रम्
READ
श्रीलक्ष्मीवेङ्कटेश्वरभुजङ्गस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
