श्रीलिङ्गपञ्चविंशतिस्तोत्रम् PDF संस्कृत
Download PDF of Lingapanchavimshatistotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीलिङ्गपञ्चविंशतिस्तोत्रम् संस्कृत Lyrics
|| श्रीलिङ्गपञ्चविंशतिस्तोत्रम् ||
श्रीमत्परमशिवामृतलिङ्गं
श्रीपतिदीन(द्रुहिण)विलोकनलिङ्गम् ।
सृष्टिस्थितिलयकारणलिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ १॥
श्रीगिरिजापरमाद्भुतलिङ्गं
श्रितजनतासंरक्षणलिङ्गम् ।
शृङ्गाराङ्गमखान्तकलिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ २॥
अखिलजगद्धितमनुपमलिङ्गं
सकलसुरासुरसेवितलिङ्गम् ।
अकलङ्कमल (अकलङ्कं च) जटाधरलिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ३॥
रविशशिबाडबलोचनलिङ्गं
रमणीयाण्डजकुण्डललिङ्गम् ।
रतिपत्यङ्गविभङ्गसुलिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ४॥
हरिहयमणिनिभकन्धरलिङ्गं
हरिनन्दनगर्वान्तकलिङ्गम् ।
हरमद्भुतमतिनिर्मललिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ५॥
अधिकसमानविवर्जितलिङ्गं
मधुरमनोज्ञसुभाषणलिङ्गम् ।
विधिचापापविवर्जितलिङ्गं(?)
तं भज विश्वेश्वरशिवलिङ्गम् ॥ ६॥
शरणागतसंरक्षणलिङ्गं
करुणारसमयलोचनलिङ्गम् ।
तरुणारुणचरणं भज लिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ ७॥
लोकालोकव्यापकलिङ्गं
काकोदरपतिकङ्कणलिङ्गम् ।
आकाशात्परचिन्मयलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ ८॥
सामादिश्रुतिसन्नुतलिङ्गं
सामजवाहनसेवितलिङ्गम् ।
दामोदशरदृतबललिङ्गं(?)
तं भज विश्वेश्वरशिवलिङ्गम् ॥ ९॥
अम्बरकेशमना(न)म्बरलिङ्गं
कम्बुग्रीवमगोत्रजलिङ्गम् ।
लम्बोदरगुहलालनलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ १०॥
पक्षापक्षविवर्जितलिङ्गं
दक्षाध्वरसंरक्षित(संहारक)लिङ्गम् ।
अक्षात्परमजमक्षयलिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ ११॥
रत्नगिरीन्द्रशरासनलिङ्गं
रत्नमयोज्ज्वलभूषणलिङ्गम् ।
आत्मानन्दसुखास्पदलिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ १२॥
तत्त्वम्पदवाच्याधिकलिङ्गं
तारकयोगविधायकलिङ्गम् ।
चिन्मयनित्यनिरञ्जनलिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ १३॥
दशदिग्वाससमनुपमलिङ्गं
दशकन्धरगानप्रियलिङ्गम् ।
पशुपाशत्वविमोचनलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ १४॥
गौरीकुचकलशाङ्कितलिङ्गं
शौरीक्षणजलजाप्रण(र्पण)लिङ्गं (?) ।
वैरीन्द्रियनिवहान्तकलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ १५॥
भैरवबाहुबलाकरलिङ्गं
कैरवबन्धुकलाधरलिङ्गम् ।
कौरवशत्रुजनार्चितलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ १६॥
किङ्करभयनाशङ्करलिङ्गं
कुङ्कुमपङ्कविलेपनलिङ्गम् ।
शङ्करमादिनिरङ्कुशलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ १७॥
सनकसनन्दनसन्नुतलिङ्ग-
मनघमनन्तमबाधितलिङ्गम् ।
मुनिजनमनुवनजस्थितलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ १८॥
मननविहीनमनोन्मनलिङ्गं
विनुतविशुद्धसनातनलिङ्गम् ।
जननविनाशमनाकुललिङ्गं
तं भज विश्वेश्वर शिवलिङ्गम् ॥ १९॥
स्फुटतरमोदसुरेश्वरलिङ्गं
पटुतरहठयोगप्रियलिङ्गम् ।
वटतरुमूलतटालयलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ २०॥
उग्राकारमनुग्रहलिङ्गं
निग्रहरूपमनुग्रहलिङ्गम् ।
व्याघ्रपदार्चितमग्रजलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ २१॥
ईक्षणदूरनिरीक्षणलिङ्गं
सूक्ष्ममजरमनपेक्षित(क्षज)लिङ्गम् ।
पञ्चाशात्मकपौरुषलिङ्गं
पञ्चीकरणविदा(धा)यकलिङ्गम् ।
पञ्चाक्षरपञ्चाननलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ २२॥
पाद(पाप)विदूरमहोन्नतलिङ्गं
पालितभुवनचतुर्दशलिङ्गम् ।
पातालेशसदाशिवलिङ्गं
तं भज विश्वेश्वरशिवलिङ्गम् ॥ २३॥
पशुपतितुरगारोहणलिङ्गं
परमपदादिशुभप्रदलिङ्गम् ।
परमशिवाश्रमपालनलिङ्गं
तं प्रणतोऽस्मि शमीवनलिङ्गम् ॥ २४॥
एतत्पञ्चविंशतिलिङ्ग-
श्लोकानि च यः पठति सकृद्वा ।
तस्य जरामृतिभयमपि न हि(नास्ति)
देहान्ते परशिवमाप्नोति ॥ २५॥
॥ इति श्रीलिङ्गपञ्चविंशतिस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीलिङ्गपञ्चविंशतिस्तोत्रम्
READ
श्रीलिङ्गपञ्चविंशतिस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
