श्रीमहाबलेशाष्टकम् PDF संस्कृत
Download PDF of Mahabaleshashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्रीमहाबलेशाष्टकम् संस्कृत Lyrics
|| श्रीमहाबलेशाष्टकम् ||
विशालकरुणं विभुं तरुणचन्द्र सद्भूषणं
धराधरसुतापतिं तरुणचन्द्रकोटिप्रभम् ।
मनोरथविवर्धनं दुरितवर्गविध्वंसनं
महाबलशिवं भजे महितसर्वकल्याणदम् ॥ १॥
समाहितमनोनुतं शमितदैत्यदम्भं प्रभुं
भवार्णवविशोषणं विहितभक्तसन्तोषणम् ।
चराचरसुमन्दिरं विधृतबालचन्द्रं शिवं
नमामि गिरिजापतिं नलिननेत्रमित्रं परम् ॥ २॥
पराभवविवर्जितं जय जयेति देवैर्नुतं
नमामि जगतां गुरुं जननमृत्युदूरं हरम् ।
जनार्दनसहोदरीनयनपद्मभानूपमं
पुराणपुरुषार्चितं शरणलोकसंरक्षकम् ॥ ३॥
दुराचरणभीषणं दुरितवर्गसंहारिणं
महागिरिवराश्रयं मुनिवरेण्यसंसेवितम् ।
हिरण्यनिधिदायकं करुणयैव संरक्षकं
कलाधरसुशेखरं नमत नित्यकल्याणदम् ॥ ४॥
महागदविदारणं मदनगर्वविश्लोषणं
भवं त्रिपुरघातिनं ह्यनलनेत्रमिन्द्रार्चितम् ।
गिरीन्द्रतनयासखं सकलसौख्यसन्दायकं
महाबलमुपास्महे निगमगम्यरूपं शिवम् ॥ ५॥
शिलीन्द्रकुसुमप्रियं वरशिरीषमाल्यान्वितं
सुबिल्वदलपूजितं वनजदिव्यपुष्पप्रियम् ।
विरिञ्चिहरिसन्नुतं भजत पञ्चवक्त्रं प्रभुं
प्रपञ्च परिपालकं वरचिरन्तनाभ्यर्चितम् ॥ ६॥
चिरन्तरवचोनुतं ह्यघचयस्य विध्वंसकं
ममाशु कविताप्रदं करिमुखस्य तातं विभुम् ।
कवीन्द्र परिसन्नुतं नमत नीलकण्ठं वरं
वरप्रदमहाबलं सुगुणकृष्णभूपावनम् ॥ ७॥
मनोरथविदायकं मनुकुलेशसम्पूजितं
ह्युमार्धसुकलेवरं विधृतदिव्यगङ्गापगम् ।
वृषेन्द्रवरवाहनं सुरवरेन्द्र सन्तोषणं
जगद्भरणमीश्वरं तरुणचन्द्रमौलिं भजे ॥ ८॥
महाबलनुतिं जना वचसि धारयन्त्यन्वहं
नृकेसरिगिरेरितां सकलसौख्यसम्पत्प्रदाम् ।
सुसन्ततिविधायिनीं शुभकदम्ब संवर्धिनीं
भजन्ति शुभमेव ते शिवपदाब्जभक्ता भुवि ॥ ९॥
इति दक्षिणाम्नाय-श्री-शृङ्गेरी-शारदापीठाधीश्वर-
जगद्गुरु-शङ्कराचार्य-श्री-श्री-श्री-
“वृद्ध”-नृसिंहभारती-महास्वामिभिः
“गोकर्ण”-क्षेत्रे विरचितं श्री-महाबलेशाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीमहाबलेशाष्टकम्
READ
श्रीमहाबलेशाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
